________________
॥ ४७१ ॥
Jain Education Inter
" जं इंदिय-सयणाई पच्च पावं करेज सो होइ । अत्थे दंडो एतो अन्नो उ अणत्थदंडो उ ॥ १ ॥ " [ अपध्यानस्य स्वरूपं परिमाणं चाह-
] ॥ ७३ ॥ ७४ ॥
वैरिघातो नरेन्द्रत्वं पुरघाता - ऽग्निदीपने । खचरत्वाद्यपध्यानं मुहूर्त्तात् परतस्त्यजेत् ॥ ७५ ॥
वैरिघात पुरघाताऽग्निदीपनादिविषयं रौद्रध्यानमपध्यानम् । नरेन्द्रत्वं खचरत्वम्, आदिशब्दादप्सरो - विद्याधरीपरिभोगादि, तेष्वार्त्तध्यानरूपमपध्यानं तस्य तत्परिमाणरूपं व्रतं - मुहूर्तात् परतस्त्यजेदिति ॥ ७५ ॥
अथ पापोपदेशस्वरूपं तद्विरतिं चाह
वृषभान् दमय क्षेत्रं कृषषण्ढय वाजिनः ।
दाक्षिण्याविषये पापोपदेशोऽयं न कल्पते ॥ ७६ ॥
वृषभान् वत्सतरान् प्रसङ्गादिना दमय दान्तान् कुरु, प्रत्यासीदति खलु वर्षाकालः । तथा क्षेत्रं बीजावापभुवं कृष, १ यदिन्द्रिय- शयनादि प्रतीत्य पापं कुर्यात् स भवति । अर्थे दण्डः, इतोऽन्यस्तु अनर्थदण्डस्तु ॥ २ तस्य नास्ति शां. ॥
३ प्रस० - मु. ॥
For Private & Personal Use Only
10
॥ ४७१ ॥
w.jainelibrary.org