SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् ॥ ४७० ॥ Jain Education Inter 388888888888888eedeeeeeeee " संवह वह बंधण-दहणंकण मारणाइपणिहाणं । अइकोह - गहघत्थं निग्विणमणसोऽहमविवागं ॥ १ ॥ पिसुणासन्भासन्भूयघायाइवयणपणिहाणं । मायाविणोऽइसंधणपरस्स पच्छन्नपावस्स ॥ २ ॥ तह तिव्वको लोहाउलस्स भूओवघायणमणजं । परदव्वहरणचित्तं परलोगावाय निरबेक्खं ॥ ३ ॥ सद्दाइबिसयसाहणधणसंरक्खणपरायणमणि । सव्वाभिसंकणपरोवघायकलुसाउलं चित्तं ॥ ४ ॥ एयं चव्विहं रागदोसमोहंकियेस्स जीवस्स । रोद्दं झाणं संसारवणं निरयगइमूलं ॥ ५ ॥ " [ ध्यानशतक १८-२४ ] एवमार्त्तरौद्रध्यानात्मकमपध्यानमनर्थदण्डस्य प्रथमो भेदः । पापकर्मोपदेशिता वक्ष्यमाणा द्वितीयः । हिंसोपकारिणां शस्त्रादीनां दानमिति तृतीयः । प्रमादानां गीत-नृत्तादीनामाचरणं चतुर्थः । शरीरादिनिमित्तं यः प्राणिनां दण्डः सोऽर्थाय प्रयोजनाय दण्डोऽर्थदण्डः, तस्य शरीराद्यर्थदण्डस्य यः प्रतिपक्षरूपोऽनर्थदण्डो निष्प्रयोजनो दण्ड इति यावत्, तस्य | त्यागोऽनर्थदण्डविरतिस्तृतीयं गुणव्रतम् । यदाह- १ सत्त्ववध-वेध-बन्धन- वहना-कून-मारणादिप्रणिधानम् । अतिक्रोध-ग्रहग्रस्तं निर्घृणमनसोऽधमविपाकम् | पिशुना -ऽसभ्याऽसद्भूत-भूतघातादिवचनप्रणिधानम् । मायाविनोऽतिसन्धानपरस्य प्रच्छन्नपापस्य || तथा तीव्रक्रोध-लोभाकुलस्य भूतोपघातनमनार्यम् । परद्रव्यहरणचित्तं परलोकापायनिरपेक्षम् || शब्दादिविषयसाधनधन संरक्षणपरायणमनिष्टम् । सर्वाभिशङ्कनपरोपघातकलुषाकुलं चित्तम् ॥ एतच्चतुर्विधं राग-द्वेषमोहाङ्कितस्य जीवस्य । रौद्रं ध्यानं संसारबर्धनं निरचगतिमूलम् ॥ २ ०परिहाणं-खं. ॥। ३ ०किअस्स-खं. ॥ ४०घढणं-खं. ॥ For Private & Personal Use Only aalee Jeeeeeeeeeeeeee तृतीय : प्रकाशः श्लोकः ७३ || 800 || 5 10 w.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy