________________
॥४६७॥
आदिशब्दात् पुष्पितौदने, अहतियातीते दध्नि, कुथितान्ने च, ये जन्तवस्ते केवलज्ञानिमिदृष्टा इति जन्तुमिश्रामगोरसमिश्रद्विदलादिभोजनं वर्जयेत् । तद्भोजनाद्धि प्राणातिपातलक्षणो दोषः। न च केवलिनां निर्दोषत्वेनाऽऽतानां वचनानि विपरियन्ति ।। ७१ ॥ ___अपिच, न मद्यादीनि कुथितान्नपर्यवसानान्येवाभोज्यानि, किन्त्वन्यान्यपि जीवसंसक्तिबहुलान्यागमादुपलभ्य वर्जनीयानीत्याह
जन्तुमिश्रं फलं पुष्पं पत्रं चान्यदपि त्यजेत् ।
सन्धानमपि संसक्तं जिनधर्मपरायणः ॥७२॥ ___ जन्तुमिर्मिश्रं फलं मधूक-बिल्वादेः, पुष्पमरणि-शिग्रु-मधूकादेः, पत्रं प्रावृषि तण्डुलीयकादेः, अन्यदपि मूलादि त्यजेत् ।। सन्धानमाम्रफलादीनां यदि संसक्तं भवेत् तदा जिनधर्मपरायणः कृपालुत्यात्त्यजेदिति संबन्धः ॥ इदं भोजनतो भोगोपभोगयोव्रतमुक्तम् ; भोगोपभोगकारणं धनोपार्जनमपि भोगोपभोग उच्यते उपचारात् । तत्परिमाणमपि भोगोपभोगव्रतम् , यथा । श्रावकस्य खरकर्मपरिहारेण कर्मान्तरेण जीविका। एतच्च सङ्केपार्थमतिचारप्रकरण एव क्ष्यति। अवसितं भोगोपभोगव्रतम् ॥ ७२ ॥
१ विपज(य)यन्ति-खं. ॥ २ बहला शां.॥ ३ इदं च भोजनतो-मु.॥ ४ वक्ष्यति-मु.॥
HEHREETEHRICEIGHEMEMORRHSHRRIGHTSHCHIGHCIENCE
॥४६७॥
Jain Education Inte
For Private & Personal use only
Alww.jainelibrary.org