________________
स्वोपश
तृतीय:
वृत्ति
विभूषितं योगशास्त्रम् ॥४६६ ॥
प्रकाशः श्लोकाः ७०-७१
5
.
.
CHEMEHCHEMENCYRICSEREBERRREECHEHCHCHEHEHEI
तदेवं रात्रिभोजनस्य भूयांसो दोषाः, तत्परिवर्जने तु ये गुणास्तान् वक्तुमस्माकमशक्तिरेवेत्याह
रजनीभोजनत्यागे ये गुणाः परितोऽपि तान् ।
न सर्वज्ञाहते कश्चिदपरो वक्तुमीश्वरः ॥ ७०॥ स्पष्टम् ।। ७० ॥ अथ क्रमप्राप्तमामगोरससंपृक्तद्विदलादिभोजनप्रतिषेधमाह- .
आमगोरससंपृक्तद्विदलादिषु जन्तवः ।
दृष्टाः केवलिभिः सूक्ष्मास्तस्माचानि विवर्जयेत् ॥ ७१ ॥ इह हीयं स्थितिः केचिद्भावा हेतुगम्याः, केचित्त्वागमगम्याः, तत्र ये यथा हेत्वादिगम्यास्ते तथैव प्रवचनधरैः प्रतिपादनीयाः। आगमगम्येषु हेतुन् , हेतुगम्येषु त्यागममात्रं प्रतिपादयत्राज्ञाविराधकः स्यात् । यदाह
“जो हेउवायपक्खम्मि हेउओ आगमे ये आगमिओ।
सो ससमयपद्मवओ सिद्धतविराहओ अन्नो ॥१॥" [ सन्मति० १४२ ] इति । आमगोरससंपृक्तद्विदलादौ न हेतुगम्यो जीवसद्भावः, किन्त्वागमगम्य एव । तथाहि--आमगोरससंपृक्ते द्विदले,
१ अ-सं. खं. । यो हेतुवादपक्षे हेतुक आगमे च आगमिकः । स स्वसमयप्रज्ञापकः सिद्धान्तविराधकोऽन्यः॥
Jain Education Ins
tal
For Private & Personal Use Only
fww.jainelibrary.org