________________
SHEHSHREEHCHHBHECHCHHEERREESEARREST
श्रूयते रामायणे दशरथनन्दनो लक्ष्मणः पितृनिदेशात् सह रामेण सीतया च दक्षिणापथे प्रस्थितोऽन्तरा कूर्वरनगरे महीधरराजतनयां वनमालामुपयेमे; ततश्च रामेण सह परतो देशान्तरं यियासन् स्वभार्या वनमालां प्रतिमोचयति स्म; सा
तु तद्विरहकातरा पुनरागमनमसम्भावयन्ती लक्ष्मणं शपथानकारयत्, यथा-प्रिये! राम मनीषिते देशे परिस्थाप्य यद्यहं अभवती स्वदर्शनेन न प्रीणयामि, तदा प्राणातिपातादिपातकिनां गतिं यामीति; सा तु तैः शपथैरतुष्यन्ती 'यदि रात्रिभोजन
कारिणां शपथं करोषि, तदा त्वां प्रतिमुञ्चामि, नान्यथा' इति तमुवाच स तथेत्यम्युपगत्य देशान्तरं प्रस्थितवान् । एवमन्यशपथाननादृत्य लक्ष्मणो वनमालया रात्रिभोजनशपथं कारितः । विशेषचरितं तु ग्रन्थगौरवमयाबेह लिख्यते ॥६८॥ शास्त्रं निदर्शनं च विना सकलजनानुभवसिद्ध रात्रिभोजनविरतेः फलमाह
करोति विरतिं धन्यो यः सदा निशि भोजनात् ।
सोऽर्द्ध पुरुषायुषस्य स्यादवश्यमुपोषितः ॥ ६९ ॥ यः कश्चिद्धर्मधना) रात्रिभोजनस्य विरतिं करोति सोऽद्धं पुरुषायुषस्योपोषितः स्यात् । उपवासस्य चैकस्यापि निर्जराकारणत्वान्महाफलत्वम् , पञ्चाशद्वर्षसम्मितानां तूपवासानां कियत्फलं सम्भाव्यते? इदं च शतवर्षायुषः पुरुषानधिकृत्योक्तम् । पूर्वकोटीजीविनस्तु प्रति तदर्द्धमुपवासानां न्यायसिद्धमेव ।। ६९॥
१०निर्देशात्-खं.। निवेर्शात्-सं.। २ कूबरनगरे-मु. शां.। "ते कामन्तः प्रतिदिनं जानकीरामलक्षमणाः । त्यक्त्वारण्यानि विजयपुरं सन्ध्याक्षणे ययुः ॥ १६८ ।।.......पुरे च तस्मिन्नभवद् राजा नाम्ना महीधरः । इन्द्राणी नाम तत्पत्नी वनमालेति तत्सुता ॥ १७० ॥” इति त्रिषष्टिशलाकापुरुषचरित्रे सप्तमे पर्वणि पञ्चमे सर्गे ॥ ३ युगान्-खं..
KaMREKHEKSHREMIERENCHEHEREHEHERSHEKSHEKSHREYSICICHCHHANE
___Jain Education IntelSET
i m
For Private & Personal use only
alw.jainelibrary.org