________________
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम्
तृतीयः प्रकाशः श्लोकाः ६७-६८ ॥४६४॥
॥ ४६४॥
HOLETEHRISHCHCHCHEHICHCHEHCHEHREHEHEHERENCHHEIGHBHISE
श्रेयोहेतौ वासरभोजने सत्यपि कुशास्त्रसंस्कारान्मोहादा श्रेयस्काम्यया ये रात्रावेव भुञ्जते ते शालिवपनयोग्ये पल्वले सत्यपि ऊपरक्षेत्रे शालीन् वपन्ति । यथा द्वेषरक्षेत्र शालिवपनं निरर्थक तथा रात्रावेव मया भोक्तव्यमिति निष्फलो नियमः । अधर्मनिवृत्तिरूपो हि नियमः फलवान्, अयं तु धर्मनिवृत्तिरूप इत्यफलो विपरीतफलो वा ॥६६॥ रात्रिभोजनस्य फलमाह
उलूक-काक-मार्जार-गृध्र-शर्वर-सूकराः।
अहि-वृश्चिक-गोधाश्च जायन्ते रात्रिभोजनात् ॥ ६७ ॥ रात्रिभोजनादुलूकादिषु जन्म भवति । उलूकादय उपलक्षणम् , तेनान्येष्वप्यधमतिर्यक्षु रात्रिभोजिनो जायन्ते ।। ६७॥ वनमालोदाहरणेन रात्रिभोजनदोषस्य महत्तां दर्शयति
श्रयते ह्यन्यशपथाननादृत्यैव लक्ष्मणः ।
निशाभोजनशपथं कारितो वनमालया ॥६८॥ १ ऊपरे क्षेत्रे-मु.॥ २ घुषरे-मु.॥ ३०मार्जारा-शां. खं.॥ ४ संवरसूकराः-सं. खं.। “शं वृणोतीति शंवरः, अल्पो हरिणः" इति अमिधानचिन्तामणेः स्वोपज्ञवृत्तौ ४१३५९ ॥
Jain Education inte
For Private & Personal Use Only
92 wjainelibrary.org