________________
॥४६३॥
RTERENCHEHETELEHEEREIRRIGIMEREMEHEIKHIHINDI
ननु यो दिवैव भुक्ते तस्स रात्रिभोजनप्रत्याख्याने फलं नास्ति, फलविशेषो वा कश्चिदुच्यतामित्याह
अकृत्वा नियमं दोषाभोजनादिनभोज्यपि।
फलं भजेन्न निर्व्याजं न वृद्धिर्भाषितं विना ॥ ६४ ॥ नियमं निवृत्ति, रात्रिभोजनादकृत्वा दिने भोक्तुं शीलमस्यासौ दिनभोजी सोऽपि निशाभोजनविरतेः फलं निर्व्याज |निश्छद्म, न भजेत् न लमेत । कुत इत्याह-न वृद्धिाषितं विना, वृद्धिः कलान्तरं, भाषितं जल्पितं विना न स्यात् । लौकिकमेतद् , यथा भाषितमेव कलान्तरं भवेदिति ॥ ६४॥ पूर्वोक्तस्य विपर्ययमाह
ये वासरं परित्यज्य रजन्यामेव भुञ्जते ।
ते परित्यज्य माणिक्यं काचमाददते जडाः ॥६५॥ दिवसं परित्यज्य तच्छीलतया रात्रावेव ये भुञ्जते; दृष्टान्तः स्पष्टः ॥ ६५ ॥ ननु नियमः सर्वत्र फलबान् , ततो यस्य ‘रानावेव मया भोक्तव्यं, न दिवसे' इति नियमस्तस्य का गतिरित्याह
वासरे सति ये श्रेयस्काम्यया निशि भुञ्जते । ते वपन्त्यूषरक्षेत्रे शालीन् सत्यपि पल्वले ॥ ६६ ॥
ELECTRETCHEHCHRTCHEHREETBHEHEREHEHREHEHCHCHHI
॥४३॥
Jain Education Inte205
For Private & Personal Use Only
Faw.jainelibrary.org