________________
स्वोपक्ष
वृत्तिविभूषितं
तृतीयः प्रकाश
श्लोकः
योगशास्त्रम्
६२-६३ ॥४२॥
॥४६२॥
EMEHEHEREICHERRHECHEREHENREEEEEEEEEEEEEEK
एतदेवाह
वासरे च रजन्यां च यः खादन्नेव तिष्ठति ।
शृङ्ग-पुच्छपरिभ्रष्टः स्पष्टं स पशुरेव हि ॥ ६२ ॥ स्पष्टम् ॥ ६२॥ रात्रिभोजननिवृत्तेभ्योऽपि सविशेषपुण्यवतो दर्शयति
अहो मुखेऽवसाने च यो द्वे द्वे घटिके त्यजन् ।
निशाभोजनदोषज्ञोऽश्नात्यसो पुण्यभाजनम् ॥ ६३ ॥ अहो मुखे आरम्मे, अवसाने पश्चिमे भागे, द्वे द्वे घटिके मुहूर्त मुहूर्ण रात्रेः प्रत्यासनं त्यजन् परिहरन् , योऽश्नाति स पुण्यभाजनम् । निशाभोजनदोषज्ञ इति, निशाभोजने सम्पातिमजन्तुसम्पातलक्षणा ये दोषास्तान जानन रात्रिभत्यासनमपि मुहूर्त मुहूर्त सदोषत्वेन जानाति; अत एवागमे सर्वजषन्यं प्रत्याख्यानं मुहूर्त्तप्रमाणं नमस्कारसहितमुच्यते । पाश्चात्यमुहूर्त्तादपर्वाक् श्रावको भोजनं करोति, तदनन्तरं रात्रिभोजनं प्रत्याख्याति ॥ ६३॥
१ त्यजेत्-शां. ॥ २ मुह सदोषः-शां.॥
CHCHEHEHEREHEHEREHECHEHEHENGEECHEIGHBHEHEREHETEHE
For Private & Personal Use Only
Jain Education Inte
w.jainelibrary.org