SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ॥४६१ ॥ SHCHCHCHCCCCCHERCYCHICHCHENDENCHEYENEHRENISH पुराणेन रात्रिभोजनप्रतिषेधस्य संवादमभिधायायुर्वेदेन संवादमाह-आयुर्वेदेऽप्युक्तमित्यनेन । आयुर्वेदस्तु हृन्नाभिपद्मसङ्कोचश्चण्डरोचिरपायतः। अतो नक्तं न भोक्तव्यं सूक्ष्मजीवादनादपि ॥ ६०॥ इह शरीरे द्वे पद्मे-हृत्पद्मं च यदधोमुखं, नाभिपद्मं च यदूर्ध्वमुखम् । द्वयोरपि च पद्मयो रात्रौ सङ्कोचः, कुतः ? चण्डरोचिषः सूर्यास्पापायादस्तमयात् , अतो हृत्पद्मनाभिपद्मसङ्कोचावेतोर्नक्तं रात्रौ न भोक्तव्यम् । सूक्ष्मजीवादनादपीति द्वितीयं निशाभोजनप्रतिषेधकारणम् । सूक्ष्मा ये जीवास्तेषामदनं भक्षणम् , तस्मादपि रात्रौ न भोक्तव्यम् ॥ ६॥ परपक्षसंवादमभिधाय स्वपक्षं समर्थयते संसजज्जीवसङ्घातं भुञ्जाना निशि भोजनम् । राक्षसेभ्यो विशिष्यन्ते मूढात्मानः कथं नु ते ? ॥ ६१ ॥ संबध्यमानजीवसमूह भोजनं भोज्यं भुञ्जाना निशि रात्री, राक्षसेभ्यः ऋव्यादेभ्यः, कथं नु कथं नाम, विशिष्यन्ते । भिद्यन्ते ? राक्षसा एव ते इत्यर्थः । मृढात्मानो जडाः। अपिच, लब्धे मानुषत्वे जिनधर्मपरिष्कृते विरतिरेव कर्तुमुचिता, विरतिहीनस्तु शृङ्ग-पुच्छहीनः पशुरेव ॥ ६१॥ al निशि भोजन-मु.॥ २ भक्षण करणं तस्मा-छ.॥३ अगाः-च.॥ WISHEHEHEHEMEENCHEHEHREEMEHEREHEHCHEHREHCHEENCHEK w.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy