________________
स्वोva
वृत्ति
विभूषितं योगशास्त्रम्
॥ ४६० ॥
| रात्रिभोजनस्य तत्र तत्र प्रतिषिद्वत्वादिति गौणार्थ एव नक्तशब्द इत्यसौ दिवसशेषभोजने वर्त्तते । तत्र निमित्तमुक्तं मन्दीभूते दिवाकरे, मुख्यार्थप्रतिषेधाच्च न निशि भोजनं नक्तम् ॥ ५७ ॥
रात्रिभोजनप्रतिषेधमेव परकीयेण लोकद्वयेनाह—
addaleerei
Jain Education Inte
" देवैस्तु भुक्तं पूर्वाद्दणे मध्याह्ने ऋषिभिस्तथा । अपराह्णे च पितृभिः सायाह्ने दैत्यदानवैः ॥ ५८ ॥
सन्ध्यायां यक्षरक्षोभिः सदा भुक्तं कुलोद्वह ! | सर्ववेलां व्यतिक्रम्य रात्रौ भुक्तमभोजनम् ॥ ५९ ॥ ” [
]
पूर्वमङ्घः पूर्वाद्दणः, तस्मिन् देवैर्भुक्तम् । मध्यमहो मध्याह्नः, तस्मिन्नृषिभिर्भुक्तम् । अपरमहो अपराह्णः, तस्मिन् पितृभिर्भुक्तम् । सायमहः सायाह्नो विकाल:, तस्मिन् दैत्यैदितिजैर्दानवैदनुजैर्भुक्तम् । सन्ध्या रजनीदिनयोः प्रवेशनिष्काशी, तस्यां यक्षैर्गुह्यकै रक्षोभी राक्षसैर्भुक्तम् । कुलोद्वहेति युधिष्ठिरस्यामन्त्रणम् । सर्वेषां देवादीनां वेला अवसरः, तां व्यतिक्रम्य रात्रौ युक्तमभोजनमेव ।। ५८ ।। ५९ ।।
१०कासी - खं. ॥ २ • भोजनम् ॥ ५८ ॥ ५९ ॥ एवं पुराणेन -- मु. ॥
For Private & Personal Use Only
deeeeee
तृतीय
प्रकाशः
श्लोकाः
५८-५९
॥ ४६० ॥
5
10
www.jainelibrary.org