SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ॥४५९॥ ॥४५९॥ त्रयी प्राग्-यजुः-सामलक्षणा, तस्यास्तेजः प्रकृतं प्रस्तुतमस्मिन् त्रयीतेजोमयो भानुरादित्यः, गयीतनुरिति धादित्यस्य इति वेदविदो जानन्ति । तत इति शेषः, तत्करैर्भानुकरैः पूतं पवित्रीकृतमखिलं समस्तं शुभं कर्म समाचरेत्, तदभावे शुभं कर्म न कुर्यात् ॥ ५५ ॥ एतदेवाह नैवाहतिर्न च स्नानं न श्राद्धं देवतार्चनम् । दानं वा विहितं रात्री भोजनं तु विशेषतः ॥५६॥ आहुतिरग्नौ समिदायाधानम् , स्नानमङ्गक्षालनम् , श्राद्धं पितृकर्म, देवतार्चनं देवपूजा, दानं विश्राणनम् , न विहितसमिति सर्वत्र नको योगः, भोजनं तु विशेषतो न विहितमिति । ननु नक्तभोजनं श्रेयसे श्रूयते, न च रात्रिभोजनं विना तद्भवति ? उच्यते-नक्तशब्दार्थापरिज्ञानादेवमुच्यते ॥५६॥ तदेवाह दिवसस्याष्टमे भागे मन्दीमूते दिवाकरे । नक्तं तद्धि विजानीयान नक्तं निाश भोजनम् ॥ ५७ ॥” [ ] दिवसस्य दिनस्याष्टमे भागे पाश्चात्येऽर्द्धप्रहरे यद्भोजनं तन्नक्तमिति विजानीयात् । द्विविधा हि शब्दस्य प्रवृत्तिर्मुख्या गौणी च; तत्र क्वचिन्मुख्यया व्यवहारः क्वचिन्मुख्यार्थवाधायां सत्यां गौण्या; नक्तशब्दस्य रात्रिभोजनलक्षणमुख्यार्थबाधा, १ मंगप्रक्षा-मु.॥ १ नक्तं तद्विजा.-सं.वं.। नक्तं तु तद्विजा-मु.॥ EHEHIMIRROREIGHBHISHIRIDHHHHHHHHHHHHHHHHISHES Jain Education in 1982 For Private & Personal use only wwe jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy