SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ स्वोपन वृत्ति तृतीयः प्रकाशः श्लोकाः ५०-५१-५२ ॥४५६ ॥ विभूषितं योगशास्त्रम् ॥४५६॥ पिपीलिका कीटिका अनादिमध्ये भुक्ता सती मेधां बुद्धिविशेषं हन्ति, पिपीलिकेति जातवेकवचनम् । तथा यूका जलोदरमुदररोगविशेषं कुर्यात् । तथैव मक्षिका वान्तिं वमनं करोति । तथैव कोलिको मर्कटकः कुष्ठरोगं करोति । कण्टको दर्यादिसंबन्धी दारुखण्डं च काष्ठशकलं तथैव गलव्यवां वितनोति । व्यञ्जनानि शाकादीनि, तेषां मध्ये निपतितो| इधिकस्तालु विध्यति। ननु पिपीलिकादयः सूक्ष्मत्वान्न दृश्यन्ते, वृश्चिकस्तु स्थूलत्वाद् दृश्यत एव, तत्कथमयं भोज्ये निविशेत ? उच्यतेव्यञ्जनमिह वार्ताकशाकरूपमभिप्रेतं तद्वन्तं च वृश्चिकाकारमेव भवतीति वृश्चिकस्य तन्मध्यपतितस्सालक्ष्यत्वाद्भोज्यता सम्भवति । विलग्नश्च गले वाल इत्यादि स्पष्टम् । एवमादयो रात्रिभोजने दृष्टा दोषाः सर्वेषां मिथ्यादृशामपि । यदाहुः"मेहं पिपीलियाओ हणंति बमणं व मच्छिया कुणइ । जूया जलोयरत्तं कोलियओ कोढरोगं च ॥१॥ पालो सरस्स भङ्गं कण्टो लग्गइ गम्मि दारं च । तालुम्मि विधइ अली बंजणमझम्मि भुंजतो ॥२॥" [ अपि च निशाभोजने क्रियमाचे अवश्यं पाकः संभवी, तत्र च षड्जीवनिकायबधोऽवश्यंभावी, भाजनधावनादौ १ वांतीक०--शां० । वार्ताकु-मु.॥ २ ०वतीति--मु.॥ ३ मेधां पिपीलिका घ्नन्ति वमनं च मक्षिका करोति। यूका जलोदरत्वं कोलिकः कुष्ठरोगचा वालः स्वरस्व भङ्ग कण्टको | लगति गले दारु च । तालुनि विश्वति अलियञ्जनमध्ये भुज्यमानः॥ ४ निशि भो.--खं ॥ n Jain Education in For Private & Personal Use Only ow.iainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy