________________
घोरान्धकाररुद्धाक्षैः पतन्तो यत्र जन्तवः ।
नैव भोज्ये निरीक्ष्यन्ते तत्र भुञ्जीत को निशि? ॥४९॥ प्रबलान्धकारनिरुद्धलोचनैः कमि-पिपीलिका-मक्षिकादयः पतन्तो घृत-तैल-तक्रादौ भोज्ये न दृश्यन्ते यत्र तत्र तयां निशि सचेतनः को मुजीत ॥ १९ ॥ रात्रिभोजने दृष्टान् दोषान् श्लोकत्रयेणाह
मेधां पिपीलिका हन्ति यूका कुर्याजलोदरम् । कुरुते मक्षिका वान्ति कुष्ठरोगं च कोलिकः ॥५०॥ कण्टको दारुखण्डं च वितनोति गलव्यथाम् । व्यञ्जनान्तनिपतितस्तालु विध्यति वृश्चिकः ॥५१॥ विलग्नश्च गले वालः खरभङ्गाय जायते ।
इत्यादयो दृष्टदोषाः सर्वेषां निशि भोजने ॥५२॥ १ दृष्टदोषान्-खं.॥
RRHETHEMISHRTCHEMEHCHEMSHCHHIGHCHROHIBHISHIRIDHEEREHREE
॥४५५॥
Jain Education Intel
For Private & Personal Use Only
Relww.jainelibrary.org