SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ॥ ४५३॥ 5 ____आोऽशुष्कः, शुष्कस्य तु निजींवत्वादनन्तकायत्वं न भवति, कन्दो भूमध्यगो वृक्षावयवः समग्रोऽपि, सर्वे कन्दा इत्यर्थः। ते च सूरण-आईक लशुन-वज्रकन्द-हरिद्रा-कर्चुर-पलाशकन्द गृञ्जन लोढ-कसेरुक-मुद्गर-मुस्ता मूलक-आलुकपिण्डालुक-हस्तिकन्द-मनुष्यकन्दप्रभृतयः । किशलयः पत्रादर्वाग् वीजस्योच्छ्नावस्था, सर्वो न तु कश्चिदेव । स्नुही वज्रतः । लवणनाम्नो वृक्षस्य त्वक्, त्वगेव न त्वन्ये अवयवाः। कुमारी मांसलप्रणालाकारपत्रा। गिरिकर्णिका वल्लीविशेषः। शतावरी बल्लीविशेष एव । विरूढानि अङ्कुरितानि द्विदलधान्यानि। गुडूची वल्लीविशेषः। कोमलाऽम्लिका कोमला अबद्धाथिका अम्लिका चिश्चिणिका। पल्यङ्कः शाकमेदः । अमृतवल्ली वल्लीविशेषः । वल्लः सकरसंज्ञितः, सूकरवल्ल इत्यर्थः, सूकरसंज्ञितग्रहणं धान्यवल्लनिषेधार्थम् । एते आर्यप्रसिद्धाः । म्लेच्छप्रसिद्धास्तु अन्येऽपि सूत्रोक्ताः, सूत्रं जीवाभिगमः, अपरेऽपि कृपापरैः। सुश्रावकैर्वर्जनीयाः। ते च मिथ्यादृष्टीनामविज्ञाताः; मिथ्यादृशो हि वनस्पतीनपि जीवत्वेन न मन्यन्ते, कुतः के पुनरनन्तकायान् ॥४४॥४५॥४६॥ अथ क्रमप्राप्तमज्ञातफलं वर्जयितुमाह स्वयं परेण वा ज्ञातं फलमद्याद्विशारदः। निषिद्धे विषफले वा मा भूदस्य प्रवर्तनम् ॥४७॥ १ भूमिमध्यगो--मु.॥ २ लशोन० सं० । लसोन-खं० ॥ ३०कच्चूर०-ख० सं०॥ ४ लोढककसेरुक०--मु.॥ ५ सर्वातु काचिदेव-मु.॥ ६ चिंचणिका-खं॥ ७ दृश्यतां प्रथमायां प्रतिपत्ती॥ Jain Education Inte For Private & Personal Use Only w ww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy