SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ स्वोपक्षवृत्तिविभूषितं योगशास्त्रम् तृतीयः प्रकाशः श्लोकाः ४४-४५-४६ ॥४५२॥ ॥४५२॥ यः पुण्यात्मा पवित्रात्मा पुरुषः स पञ्चोदुम्बरजं फलं न भक्षयति, आस्तां मुलभधान्यफलसमृद्धे देशे काले वा, यावद्देशदोषाद कालदोषाद्वा अप्राप्नुवमप्यन्यभक्ष्यं धान्यफलादिभक्ष्यम् , अपिशब्द उत्तरत्रापि सम्बध्यते, बुभुक्षया क्षामोऽपि कशोऽपि । अबुशक्षितस्य स्वस्थस्य व्रतपालनं नातिदुम्करम् , यस्तु अप्राप्तभोज्यः क्षुत्क्षामश्च व्रतं पालयति स पुण्यात्मेति | प्रशस्यते ॥ १३ ॥ क्रमप्राप्तमनन्तकायनियमं लोकत्रयेण दर्शयति आर्द्रः कन्दः समग्रोऽपि सर्वः किशलयोऽपि च । स्नुही लवणवृक्षत्वक् कुमारी गिरिकर्णिका ॥४४॥ शतावरी विरूढानि गुडूची कोमलाम्लिका । पल्ल्यकोऽमृतवल्ली च वल्लः सूकरसंज्ञितः ॥४५॥ अनन्तकायाः सूत्रोक्ता अपरेऽपि कृपापरैः । मिथ्यादृशामविज्ञाता वर्जनीयाः प्रयत्नतः ॥४६॥ १ किसन० सं० । एवमग्रेऽपि ॥ २ धूकर --मु. ॥ एवमग्रेऽपि ॥ Jain Education Inte For Frivate & Personal Use Only Faxw.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy