________________
स्वोपक्षवृत्तिविभूषित योगशास्त्रम्
तृतीयः प्रकाशः श्लोकाः
४०-४१
॥४५०॥
॥४५०॥
ननु खर-द्राक्षादिरसवन्मधु मधुरमिति सर्वेन्द्रियाप्यायकत्वात् कथं परिहार्य स्थादित्याह
मधुनोऽपि हि माधुर्यमबोधैरहहोच्यते।
आसाद्यन्ते यदास्वादाच्चिरं नरकवेदनाः ॥४०॥ सत्यमस्ति मधुनो माधुर्य व्यवहारतः, परमार्थस्तु नरकवेदनाहेतृत्वादत्यन्तकटुकत्वमेव । अबोधैरिति परमार्थपरिशीलनाविकलैः, 'नरकवेदनाहेतोरपि मधुनो माधुर्यवर्णनमबोधानाम्' इति अहहेत्यनेन विषादो द्योत्यते । यस्य मधुन आखादामरकवेदनाविरमासाद्यन्ते प्राप्यन्ते ॥ ४० ॥ पवित्रत्वात् मधु देवस्नानोपयोगीति ये मन्यन्ते तानुपहसति
मक्षिकामुखनिष्ट्यूतं जन्तुघातोद्भवं मधु ।
अहो पवित्रं मन्वाना देवस्नाने प्रयुञ्जते ॥४१॥ मक्षिकाणां मुखानि तैर्निष्ठयूतं वान्तं जन्तुधातात् प्राणिघातादुद्भवो यस्य तत्तादृशमपवित्रं मधु पवित्रं भूचि मन्नाना अभिमन्यमानाः, देवानां शङ्करादीनां, स्नाने स्नाननिमित्तं, प्रयुञ्जते व्यापारयन्ति । अहो इत्युपहासे, यथा
१ आश्वाचन्ते-खं॥ १ अबोधरपि पर०-खं० ॥
HOMEHCHEREMEHCHCHEREHEREMEIGHCHCHEHRETCHEHEHEYEHEHEHER
For Private & Personal Use Only
Jain Education Inter
Ww.jainelibrary.org