SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ॥४४९॥ KHEHETHERRHETHICHCHCHERSHISHEHEKSHERMERHIGHEHROHSKCHER तेषां क्षुद्रजन्तूनां लक्षाणि, लक्षग्रहणं बहुत्वोपलक्षणम् । तेषां क्षयो विनाशः, तस्मादुद्भवो यस्य तत्तवा, तद्भक्षयन् स्तोकपश्वादिजन्तनिहन्तृभ्यः सौनिकेभ्यः खडिकेभ्योऽतिरिच्यते अधिकीभवति भक्षकोऽपि घातक इत्युक्तप्रायम् ॥३७॥ ___लौकिकानामप्युच्छिष्टभोजनत्याजिनामुच्छिष्टत्वान्मधु परिहर्तव्यमेवेत्याह एकैककुसुमक्रोडाद्रसमापीय मक्षिकाः। यद्वमन्ति मधूच्छिष्टं तदनन्ति न धार्मिकाः ॥३८॥ एकैकस्य कुसुमस्य यः क्रोड उत्सङ्गस्तस्माद्रसं मकरन्दमापीय पीत्वा, मक्षिका यद्वमन्ति उद्विरन्ति, तच्छिष्टं मधु, धर्म चरन्ति धार्मिकास्ते नाश्नन्ति । अनुच्छिष्टभोजनं हि धर्मो लौकिकानाम् ॥ ३८ ॥ ननु त्रिदोषशमनं मधु, नातः परमौषधमस्तीति रोगोपशान्तये मधुमक्षणे को दोष इत्याह अयोषधकृते जग्धं मधु श्वभ्रनिबन्धनम् । भक्षितः प्राणनाशाय कालकूटकणोऽपि हि ॥३९॥ आस्ता रसास्वादलाम्पटथेन, यावदौषधकृतेऽपि औषधनिमित्तमपि मधु जग्धं यद्यपि रोगापहारकं तवापि श्वनस्य नरकस्य निबन्धनम् ; हिर्यस्मात् प्रमादाजीवितार्थितया वा कालकूटस्य विषस्य कणोऽपि लवोऽपि भक्षितः सन् प्राणनाशाय भवति ॥ ३९॥ TCHCHEHEHICHCHCHEESHBHICISCHEMECIRCBIBIBIGuaran ॥४४९॥ Jan Education Inte १ प्राणि०-खं० । For Private & Personal Use Only w.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy