SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ स्वोपब वृत्तिविभूषितं बोनशासम् हतीचः प्रकाश श्लोकः ३३ ॥४४६॥ ॥४४६॥ HEADHEHERBTRIBHRTCHINCHHETERESTERTISTRICTETS नान्यस्ततो गतघृणो नरकार्चिष्मदिन्धनम् । स्वमांसं परमांसेन यः पोषयितुमिच्छति ॥२॥ स्वाङ्गं पुष्णन् नृगूथेन वरं हि गृहसंकरः । प्राणिघातोद्भवैमासन पुनर्निणो नरः ॥३॥ निःशेषजन्तुमांसानि भक्ष्याणीति ये ऊचिरे । नृमांसं वर्जितं शङ्के स्ववधाशङ्कयैव तैः ॥४॥ विशेष यो न मन्येत नृमांस-पघुमांसयोः । धार्मिकस्तु ततो नान्यः पापीयानपि नापरः॥५॥ शुक्रशोणितसम्भूतं विष्टारसविवदितम् । लोहितं स्त्यानतामाप्तं कोऽश्नीयादकृमिः पलम् ॥६॥ अहो द्विजातयो धर्म शौचमूलं वदन्ति च । सप्तधातुकदेहोत्थं मांसमश्नन्ति चाधमाः ॥७॥ येषां तु तुल्ये मांसामे सतणाभ्यवहारिणाम् । विषामृते समे तेषां मृत्यु-जीवितदायिनी ॥८॥ भक्षणीयं सतां मांस प्राण्यङ्गत्वेन हेतुना । ओदनादिवदित्येवं ये चानुमिमते जेडाः॥९॥ गोसम्भवत्वात्ते मूत्रं पयोवन्न पिबन्ति किम् ।। प्राण्यङ्गतानिमित्ता च नौदनादिषु भक्ष्यता ॥ १० ॥ शङ्खादि शुचि नास्थ्यादि प्राण्यङ्गत्वे समे यथा । ओदनादि तथा भक्ष्यमभक्ष्यं पिशितादिकम् ॥ ११ ॥ यस्तु प्राण्यङ्गमात्रत्वात् प्राह मांसौदने समे । स्त्रीत्वमात्रान्मार्तृपत्न्योः स किं साम्यं न कल्पयेत् ? ॥ १२॥ | पश्चेन्द्रियस्यैकस्यापि वघे तन्मांसभक्षणात् । यथा हि नरकप्राप्तिर्न तथा धान्यभोजनात् ॥ १३ ॥ न हि धान्यं भवेन्मांसं रसरक्तविकारजम् । अमांसभोजिनस्तस्मान पापा धान्यभोजिनः ॥१४॥ १ यो वर्धयितु-ख. च. म. न. ॥ २ पुष्णन् स्वग्थेन-खं.। ३ ०शूकर:-सं. विना ॥ ४ यचिरे-खं. ॥ ५ जनाः खं । ६०मातृ-पुथ्यो: BrelalalalaaEERRENalalalaaEEEEEEEEEळा Jain Education Inte For Private & Personal Use Only sow.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy