________________
॥४४५॥
RCHESHCHECHCHEHRENCHAHEENCHAHEECHEHREENERATEE
अथ यथा स्तोकं मद्यं न मदयति तथा स्वल्पं मांस न पापाय स्यात् । उच्यते--यवाल्पमपि यवतुल्यप्रमाणमपि नाद्यात् पलभिति संबध्यते, तदपि दोषाय, अत्रोत्तरार्द्धन निदर्शनम् ॥ ३२ ॥ इदानीमनुत्तरं मांसस्य दोषमुपदर्शयन्नुपसंहरति
सद्यः संमूञ्छितानन्तजन्तुसन्तानदूषितम् ।
नरकाध्वनि पाथेयं कोऽश्नीयात् पिशितं सुधीः ? ॥३३॥ सद्यो जन्तुविशसनकाल एव संमूञ्छिता उत्पन्ना अनन्ता निगोदरूपा ये जन्तवस्तेषां सन्तानः पुनः पुनर्भवनं तेन दूषितम् । यदाहुः
"आमासु अ पक्कासु अविपच्चमाणासु मंसपेसीरा।।
सययं चिय उववाओ भणिओ उ निगोअजीवाणं ॥ १॥" [ ] ___ तत एव नरकाध्वनि पाथेयम्, पिशितभक्षणस्य पाथेयत्वे पिशितमपि पाथेयमुक्तम्, कोऽश्नीयात् पिशितं सुधीरित्युपसंहारः। अत्रान्तरश्लोकाः--
मांसलुब्धैरमर्यादैर्नास्तिकैः स्तोकदर्शिभिः । कुशास्त्रकायात्याद्गदितं मांसभक्षणम् ॥१॥
१ यदाह-सं. मु.॥ २ निगोय. सं. ॥-आमासु च पक्वासु च विपच्यमानासु मांसपेशीषु । सततमेष उपपातो भणितस्तु निगोदजीवानाम् ॥
ClalRELETECEBHECHEHREENETELEHENECTRETEHRICHE
॥४४५॥
Jain Education in
For Private & Personal Use Only
4ww.jainelibrary.org