SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ॥४४३॥ TELECRETSHRELEHRRHETRIERRRRRRRRRHEHRCHEHEHEN मृग-पक्षिमांसविषयमेतच्छास्त्रम्, तेन खनापणमांसं विना व्याध-शाकुनिकादिभ्यः क्रीत्वा मूल्येन, सनापणमांसे तु है। देवपूजादावनधिकृते, तथा स्वयमुत्पाद्य ब्राह्मणो याअया, क्षत्रियो मृगयाकर्मणा, अथवा परेणोपहृतं दौकितम् , तेन मांसेन । देवानां पितॄणां चार्चनं कृत्वा मांसं खादन दुष्यति। एतच्च महामोहादिति वदद्भिरस्माभिर्दूषितमेव । स्वयमपि हि प्राणिघातहेतुकं मांस भक्षयितुमयुक्तं किं पुनर्देवादिभ्यः कल्पयितुम् । देवा हि सुकृतसम्भारलब्धात्मानोऽधातुकशरीरा अकावलिकाहाराः . कथं मांस भक्षयेयुः १ अभक्षययश्च तत्कल्पनं मोह एव । पितरश्च स्वमुकुत-दुष्कृतवशेन प्राप्तगतिविशेषाः स्वकर्मफल मनुभवन्तो न पुत्रादिकृतेनापि सुकतेन तार्यन्ते किं पुनासढौकनदुष्कृतेन । न च पुत्रादिकृतं सुकृतं तेषामुपतिष्ठते । न यानेषु सेकः कोविदारेषु फलं दत्ते । अतिथिम्यश्च सत्कारार्हेभ्यो नरकपातहेतोमासस्य ढौकनं महते अधर्माय । एवं परेषां महामोहचेष्टितम् । श्रुति-स्मृतिविहितत्वादनोद्यमेतदिति चेत्, न श्रुतिभाषितेष्वप्रामाणिकेषु प्रत्ययस्य कर्तुमशक्यत्वात् । श्रूयन्ते हि श्रुतिर्वचांसि भूयांसि- यथा पापन्नो गोस्पर्शः द्रुमाणां च पूजा, छागादीनां वधः स्वर्गाः, बाखणभोजनं पितृप्रीणनम् , मायावीन्यधिदैवतानि, वह्नौ हुतं देवप्रीतिप्रदम् ।' तदेवंविधेषु श्रुतिभाषितेषु युक्तिकुशलाः कथं श्रद्दधीरन् ? । यदाह TREENERRIERRENERGREENERRCHECEIRECHEHERCHEHEHEN " स्पर्शोऽमेध्यभुजां गवामघहरो बन्या विसंज्ञा द्रुमाः, स्वर्गश्छागवधाद्धिनोति च पितॄन् विप्रोपभुक्ताशनम् । १ मांसेन देव०. खं.॥ २कतेः-मु.॥ ३ व्ययस्तत्क०-1.॥ ॥४४३॥ वांसि पथा-.॥ Jain Education Inte For Private & Personal Use Only ww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy