________________
॥४४१॥
॥४४
॥
BACHEICHEICHEREHEHEREICHERECEICHCHEHREMEHEKHEHCHEMENT
कदल दाडिम नालिकेर-नारङ्ग-खजूरा-ऽक्षोट-राजादन-पनसादिषु च सत्स्वपि तान्यनादृत्य ये मृदा विस्रगन्धि जुगुप्साकर शूकाप्रधानानां वान्तिकरं मांसं भक्षयन्ति ते जीवितवृद्धिहेत्वमृतरसपरिहारेण जीवितान्तकरं हलाहलं विषमेदं भुञ्जते । बालोऽपि हि दृषत्परिहारेण सुवर्णमेवादत्त इति बालादपि मांसभक्षिणो बालाः ॥२८॥ भङ्गयन्तरेण मांसभक्षणदोषमाह--
न धर्मो निर्दयस्यास्ति पलादस्य कुतो दया। .
पललुब्धो न तवत्ति विद्याद्वोपदिशेन्न हि ॥ २९ ॥ निर्दयस्य कृपारहितस्य धर्मो नास्ति, धर्मस्य दया मूलमिति ह्यामनन्ति । ततः प्रस्तुते किमायातमत आह-पलादस्य कुतो दया ? पलादस्य मांसोपजीविनः कुतो दया? नैव दयेत्यर्थः, भक्षकस्य वधकत्वेनोक्तत्वात्, वधकश्च कथं सदयो नाम इति पलादस्य निर्धर्मतालक्षणो दोषः । । ननु सचेतनः कथमात्मनि धर्माभावं सहेत ? उच्यते-पललुब्धो न तद्वेत्ति, मांसलोमेन न तत्पूर्वार्धोक्तं जानाति । अथ कथञ्चिद्विद्याजानीयात्तर्हि स्वयं मांसलुब्धो मांसनिवृत्ति कर्तुमशक्नुवन् सर्वेऽपि मत्सदृशा भवन्त्विति परेभ्यो मांसनिषेधं नोपदिशेदाजिणकवत् । श्रूयते हि कश्चिदाजिणको मार्गे गच्छन्नेकया सर्पिण्या भक्षितस्तत् सर्वेऽपि भक्ष्यन्तामनयेति |
१ मम सरशा-मु.॥
HalHDHDHHHHHHHHHHHHHHCHCHCHENDICHET
Jain Education Inter
For Private
Personal use only
w.jainelibrary.org