________________
खोपबपतिविभूषितं
तृतीयः प्रकाश श्लोकाः २७-२८ ॥४४०॥
॥won
HEREHEHREETECTEHEHRISTRETCHENDICHETHEREHERETCHETEK
मांसभक्षणे महादोषमाह
मांसास्वादनलुब्धस्य देहिनं देहिनं प्रति ।
हन्तुं प्रवर्त्तते बुद्धिः शाकिन्या इव दुर्धियः ॥ २७ ॥ मांसभक्षणलम्पटस्य देहिनं देहिनं प्रति यं यं पश्यति जलचरं मत्स्यादिकम्, स्थलचरं मृगवराहादि अजाऽविकादि च, खचरं तित्तिर-लावकादि, अन्ततो मूषिकाद्यपि, तं तं प्रति हन्तुं हननाय बुद्धिः प्रवर्तते; दुर्धियो दुर्बुद्धेः । शाकिन्या इव-यथा । हि शाकिनी यं यं पुरुषं स्त्रियमन्यं वा प्राणिनं पश्यति तं तं हन्तुं तस्या बुद्धिः प्रवर्तते, तथा मांसास्वादनलुन्धस्यापीति ॥ २७॥ अपि च मांसभक्षिणामुत्तमपदार्थपरिहारेण नीचपदार्थोपादानं महद् बुद्धिवैगुण्यं दर्शयतीति दर्शयबाह
ये भक्षयन्ति पिशितं दिव्यभोज्येषु सत्स्वपि ।
सुधारसं परित्यज्य भुञ्जते ते हलाहलम् ॥ २८ ॥ दिव्यभोज्येषु सकलधातुबृहकेषु सर्वेन्द्रियप्रीतिप्रदेषु क्षीर-क्षरेयी-किलाटी-कर्चिका-रसाला-दच्यादिषु मोदक मण्डकमण्डिका-खाद्यक-पर्पटिका-घृतपूरादिषु इण्डेरिका-पूरण-वटक-वटिका-पर्पटादिषु इक्षु-गुड-खण्ड-शर्करादिषु द्राक्षा-सहकार
रखेचरं-मु.॥ २ तित्तिरि० मु.॥ किलाट--सं. वं. । " उमे क्षीरस्य विकृती किलाटी कर्चिकाऽपि च ॥३-६९ ॥” इति अमिधानचिन्तामणौ ॥
MalelelalenamaROHTTERTCHENapavelamaare
Jain Education Inte
For Private & Personal Use Only
Jw.jainelibrary.org