________________
॥४३९ ॥
ENSHEETEEEEEEEEEEEEEEEEEEEEEEEEEEEVE
___ मांसभक्षणे न दोषोऽस्तीति यैरुच्यते दुरात्मभिर्दुःस्वभावैः, यथा
"न मांसभक्षणे दोषो न मये न च मैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥१॥" [मनुस्मृतौ ५।५६] इति, 3 तैर्व्याधा लुब्धकाः, गृध्रा हिंस्राः पक्षिविशेषाः, वृका अरण्यश्वानः, व्याघ्राः शार्दूलाः, शृगाला जम्बुकाः, गुरूकृताः । के उपदेशकाः कृताः, न हि व्याधादीन् गुरून् विना कश्चिदेवंविधं शिक्षयति, न चाशिक्षितं महाजनपूज्या एवमुपदिशन्ति । के
अपि च, निवृत्तिस्तु महाफलेति वदद्भिर्येषां निवृत्तिर्महाफला तेषां प्रवृत्तिर्न दोषवतीति स्वयमेव स्ववचनविरोध आविष्कृत इति किमन्यद् ब्रूमहे ॥ २५ ॥ निरुक्तबलेनापि मांसस्य परिहार्यत्वमाह
" मां स भक्षयिताऽमुत्र यस्य मांसमिहाम्यहम् ।” [ मनुस्मृति ५५५ ]
एतन्मांसस्य मांसत्वे निरुक्तं मनुरब्रवीत् ॥२६॥ मां स भक्षयितेति अत्र स इति सर्वनाम सामान्यापेक्षं योग्येनार्थेन निराकाङ्क्षीकरोति-यस्य मांसमहमछि । इहेति हैइहलोके, अमुत्रेति परलोके, एतद्मासस्य मांसत्वे मांसरूपतायां निरुक्तं नामधेशनिर्वचनं मनुरब्रवीत् ॥ २६ ॥
१ "एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः॥” इति उत्तरार्ध मनुस्मृतौ ॥ २ मांसरूपत्वे-शां.॥
TENEERIEEEEEEEEEEEEEEEEEERREEN
Jain Education Intema
For Private & Personal Use Only
ainelibrary.org