SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ॥ ४३७ ॥ Jain Education द्वितीयमपि मानवं श्लोकमाह "" 'नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते कचित् । न च प्राणिवधः स्वर्ग्यस्तस्मान्मांसं विवर्जयेत् ॥ २२ ॥” [ मनुस्मृति ५ |४८ ] यावत् प्राणिनो न हतास्तावन्मांसं नोत्पद्यते, हिंसा चातिशयेन दुःखावहा, तस्मान्मांसं विवर्जयेत् । उत्पद्यत इति मांसस्य हिंसानिमित्तत्वात् कर्तृव्यपदेश इति समानकर्तृकत्वमबिरुद्धम् । न च स्वर्ग्य इति न स्वर्गानुत्पत्तिमात्रमभिप्रेतम्, अपि तु नरकादिदुःखहेतुता || २२ ॥ tional इदानीमन्यपरिहारेण भक्षकस्यैव वधकत्वमाह ये भक्षयन्त्यन्यपलं स्वकीयपलंपुष्टये । तएव घातका यन्न वधको भक्षकं विना ॥ २३ ॥ अन्यपलमन्यमा॑सं स्वमांसपृ॒ष्टये ये भक्षयन्ति त एव परमार्थतो घातका ने तु इन्द्र-विक्रेतुप्रभृतयः । अत्र युक्तिमाहयद् यस्मान्न मक्षकं विना वधको भवति, ततो हन्तुप्रभृतिभ्यो भक्षकः पापीयान् । स्वकीयपलपुष्टय इति साभिप्रायम्, | स्वपलपोषणमात्रप्रयोजनः कतिपयदिनजीवितः परजीवितप्रहाणं कुर्यात् । यदाह -- ० यबल० - शां. ॥ २ घातका ननु हन्तु०-शां । घातका नु हन्तृ० सं० ॥ ३ इति हिंसामिप्रागं मु. ॥ For Private & Personal Use Only aaaaaaaa aalaaaaaa 10 ॥ ४३७ । www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy