________________
तृतीय
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
प्रकाशः श्लोकाः २०-२१ ॥४३६॥
हन्ता पलस्य विक्रेता संस्कर्ता भक्षकस्तथा।
क्रेताऽनुमन्ता दाता च घातका एव यन्मनुः ॥२०॥ हन्ता शस्त्रादिना प्राणिनां प्राणापहारकः, पलस्य विक्रेता यो मांस विक्रीणीते, पलस्येत्युत्तरेष्वपि पदेषु सम्बन्धनीयम् , संस्कर्ता यो मांसं संस्करोति, भक्षकः खादकः, क्रेता यो मांसं क्रीणाति, अनुमन्ता यः प्राणिहिंसया मांसमुत्पाद्यमानमनुमोदते, दाता यो मांसमतिथ्यादिभ्यो ददाति, एते साक्षात् पारम्पर्येण वा घातका एव प्राणिप्राणापहारका एव, यन्मनुरिति संवादार्थम् ॥ २० ॥ मानवमेवोक्तं दर्शयति
" अनुमन्ता विशसिता निहन्ता क्रयविक्रयी।
संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥२१॥” [ मनुस्मृति ५५१ ] | अनुमन्ता अनुमोदकः, विशसिता हतस्याङ्गविभागकरः, निहन्ता व्यापादकः, क्रयविक्रयी क्रयविक्रयो विद्यते यस्य स तथा, क्रेता विक्रेता चेत्यर्थः, संस्कर्ता मांसपाचकः, उपह" परिवेष्टा, खादको भक्षकः, एते सर्वे । घातकाः ॥२१॥
10
Jain Education Inte
For Private & Personal Use Only
Servw.jainelibrary.org