SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ॥४३५॥ ३५॥ अथ मांसदोषानाह चिखादिषति यो मांसं प्राणिप्राणापहारतः । उन्मूलयत्यसौ मूलं दयारव्यं धर्मशाखिनः ॥१८॥ चिखादिषति खादितुमिच्छति, यः कश्चित् , मांसं पिशितम् , असौ पुमान् , उन्मूलयति उत्खनति, किं तत् ? मूलं दयासंज्ञकम् , कस्य ? धर्मशाखिनः पुण्यवृक्षस्य । मांसखादने कथं धर्मतरोर्दयाख्यं मूलमुन्मूल्यते ? इत्याह प्राणिप्राणापहारतः प्राणिप्राणापहाराद्धेतोः, न हि प्राणिप्राणापहारमन्तरेण मांसं संभवतीति ॥ १८ ॥ अथ मांस चिखादिपन्नपि प्राणिदयां करिष्यतीत्याह अशनीयन् सदा मांसं दयां यो हि चिकीर्षति । ज्वलति ज्वलने वल्लीं स रोपयितुमिच्छति ॥ १९ ॥ सदा सर्वदा, मांसमशनीयन् मांसमशनमिवाचरन् , पुत्रीयति च्छात्रमितिवत् 'आधाराचोपमानादाचारे' [सि०३।४।२४॥ इति क्यनि रूपम् , दयां कृपाम् , यः कश्चित् , हि स्फुटम् , चिकीर्षति कर्तुमिच्छति । ज्वलतीत्यादिना निदर्शनम् , यथा ज्वलत्यग्नौ वल्लीरोपणमशक्यं तथा मांसमशनीयता दयाऽपि कर्तुमशक्येत्यर्थः ॥ १९॥ नन्वन्यः प्राणिनां घातकोऽन्यश्च मांसभक्षक इति कथं मांसभक्षकस्य प्राणिप्राणापहरणमिति ? उच्यते-भक्षकोऽपि घातक एवेत्याह For Private & Personal Use Only Jain Education Intem jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy