SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ तृतीयः स्वोपन वृत्तिविभूषितं योगशास्त्रम् प्रकाशः श्लोकः ॥४३४॥ ॥४३४॥ गृहे बहिर्वा मार्गे वा परद्रव्याणि मूढधीः । वध-बन्धादिनिर्भीको गृह्णात्याच्छिद्य मद्यपः ॥ ३ ॥ बालिका युवतीं वृद्धा ब्राह्मणी श्वपचीमपि । भुङ्क्ते परस्त्रियं सद्यो मद्योन्मादकदर्थितः ॥ ४ ॥ रटन् गायन लुठन धावन् कुप्यंस्तुष्यन् रुदन् हसन् । स्तंभन्नमन् भ्रमंस्तिष्ठन् सुरापः पापराट् नटः ॥५॥ श्रूयते किल शाम्बेन मद्यादन्धम्भविष्णुना । हतं वृष्णिकुलं सर्व प्लोषिता च पुरी पितुः ॥ ६ ॥ पिबन्नपि मुहुर्मयं मद्यपो नैव तृप्यति । जन्तुजातं कवलयन् कृतान्त इब सर्वदा ॥ ७ ॥ लौकिका अपि मद्यस्य बहुदोषत्वमास्थिताः । यत्तस्य परिहार्यत्वमेवं पौराणिका जगुः ॥ ८॥ कश्चिदृषिस्तपस्तेपे मीत इन्द्रः सुरस्त्रियः । क्षोभाय प्रेषयामास तस्थागत्य च तास्तकम् ॥ ९॥ विनयेन समाराध्य वरदामिमुखं स्थितम् । जगुर्मयं तथा मांस सेवस्खाब्रह्म चेच्छया ॥ १० ॥ स एवं गदितस्तामियोर्नरकहेतुताम् । आलोच्य मद्यरूपं च शुद्धकारणपूर्वकम् ॥ ११ ॥ मद्यं प्रपद्य तेंद्रोगानष्टधर्मस्थितिर्मदात् । विदंशार्थमजं हत्वा सर्वमेव चकार सः ॥ १२॥ . अवद्यमूलं नरकस्य पद्धति, सर्वापदां स्थानमकीर्त्तिकारणम् । अभव्यसेव्यं गुणिमिर्विगर्हितं, विवजयेन्मद्यमुपासकः सदा ॥ १३ ॥ ॥१७॥ १ स्तर्जयन् भ्रम-खं० ॥ २ पितुः पुरी-ख. च ॥३०माश्रिताः-ख. च.म.॥४ तद्भोगाद् नष्टधर्मस्थितिरित्यर्थः । BEHCHEHEENCHECCHEEREEMEHREENSHEEEEEECHEVCHCHE For Private & Personal Use Only Jain Education inte Plw.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy