SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ॥ ४३३ ॥ elelelelelele dardaralee Jain Education Inter विवेकः संयमो ज्ञानं सत्यं शौचं दया क्षमा । मद्यात् प्रलीयते सर्वं तृण्या वह्निकणादिव ॥ १६ ॥ विवेको हेयोपादेयज्ञानम्, संयम इन्द्रियवशीकारः, ज्ञानं शास्त्रावबोधः, सत्यं तथ्या भाषा, शौचमाचारशुद्धिः, दया करुणा, क्षमा क्रोधस्यानुत्पाद उत्पन्नस्य वा विफलीकरणम् । मद्यान्मद्यपानात् प्रलीयते नाशमुपयाति सर्वं विवेकादि । यथा बह्निकणात् तृण्या तृणसमूहः । तृणानां समूहस्तृण्या, पाशादित्वाल्यः ॥ १६ ॥ तथा दोषाणां कारणं मद्यं मद्यं कारणमापदाम् । रोगातुर इवापथ्यं तस्मान्मद्यं विवर्जयेत् ॥ १७ ॥ दोषाणां चौर्य पारदारिकत्वादीनां कारणं हेतुः, मद्यपानरतो हि किं किमकार्यं न कुरुते ? दोपकारणत्वादेव चापदां वधबन्धादीनां कारणम्, तस्मान्मद्यं विवर्जयेदित्युपसंहारः । रोगातुर इवापथ्यमित्युपमानम् । अत्रान्तरश्लोकाः— रसोद्भवाश्च भूयांसो भवन्ति किल जन्तवः । तस्मान्मद्यं न पातव्यं हिंसापातकभीरुणा ॥ १ ॥ दत्तं न दत्तमात्तं च नात्तं कृतं च नो कृतम् । मृषोद्यराज्यादिव हा स्वैरं वदति मद्यपः ॥ २ ॥ १" पाशादेश्व ल्यः " - सि० ६।२५। For Private & Personal Use Only addeeaaaaaaaaaaaa ooooooosee 10 ॥ ४३३ ॥ ww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy