________________
॥ ४३२ ॥
Jain Education Inter
मद्याद्धेतोः चलितचेतनो नष्टचैतन्यः सन् स्वमात्मानं परं वा आत्मव्यतिरिक्तं न जानाति । अत्र हेतुनाह — पत | आत्मानमजानन् स्वं स्वामिनमिवाचरति, वराकश्चैतन्यहीनत्वादनुकम्पनीयः । परमजानन् स्वामिनं नाथं किङ्करमिवाचरति ॥ १० ॥
तथा
मद्यपस्य शबस्येव लुठितस्य चतुष्पथे ।
मूत्रयन्ति मुखे खानो व्यात्ते विवरशङ्कया ॥ ११ ॥
स्पष्टः ।। ११ ।। तथा
मद्यपानरसे मग्नो नमः स्वपिति चत्वरे ।
गूढं च स्वमभिप्रायं प्रकाशयति लीलया ॥ १२ ॥
स्य पानं तत्र रस आसक्तिस्तत्र मग्नो निषण्णः मद्यपानव्यसनीत्यर्थः । अत एव वस्त्रमपि स्रस्तमजानन् नग्नः स्वपिति चत्वरे, न तु गृह एव । दोषान्तरं च - गूढं केनाप्यविदितं स्वमभिप्रायं राजद्रोहादिकं प्रकाशयति प्रकटीकरोति लीलया बन्धनताडनादिव्यतिरेकेणापि ॥ १२ ॥ तथा
वारुणीपानतो यान्तिकान्तिकीर्तिमतिश्रियः । विचित्राश्वित्ररचना विलुठत्कज्जलादिव ॥ १३ ॥
१ दोषान्तरं च - नास्ति खं. ॥
For Private & Personal Use Only
10
॥ ४३१ ॥
www.jainelibrary.org