SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ स्वोveवृप्ति विभूषितं योगशास्त्रम् ॥ ४३० ॥ Jain Education Inter तत्र मद्यस्य वर्जनीयत्वे हेतून् दोषान् श्लोकदशकेनाह— मदिरापानमात्रेण बुद्धिर्नश्यति दूरतः । वैदग्धीबन्धुरस्यापि दौर्भाग्येणेव कामिनी ॥८॥ वैदग्धीबन्धुरस्यापि छेकस्यापि पुंसो मदिरापानमात्रेण बुद्धिर्नश्यति क्षयं याति दूरतो दूरं यावत् सर्वथा विनश्यतीत्यर्थः । अत्रोपमानं दौर्भाग्येणेव कामिनीति । वैदग्धीबन्धुरस्यापि दूरत इति चात्रापि सम्बध्यते । तेन यथा विदग्धस्यापि | दौर्भाग्यदोषेण कामिनी नश्यति पलायते दूरतो दूरादपि ॥ ८ ॥ तथा पापाः कादम्बरीपानविवशीकृतचेतसः । जननीं हा प्रिययन्ति जननीयन्ति च प्रियाम् ॥ ९ ॥ कादम्बरी मदिरा । जननीं मातरम्, हा इति खेदे, प्रियीयन्ति प्रियामिव जायामिवाचरन्ति, प्रियां च जननीयन्ति जननीमिवाचरन्ति । मदिरामद विह्वलत्वाज्जननी - जाययोराचारव्यत्ययेन व्यवहरन्तीत्यर्थः ॥ ९ ॥ तथा — न जानाति परं स्वं वा मद्याच्चलितचेतनः । स्वामीयति वराकः स्वं स्वामिनं किङ्करीयति ॥ १० ॥ १ वर्जनीयत्वहेतून् - सं० । वर्जनीयस्य हेतून खं० ॥ For Private & Personal Use Only aalalacadadladaladadecadaadaalat aalaa तृतीय : प्रकाशः लोकाः ८-९-१० ॥ ४३० ॥ 5 10 www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy