________________
४२९॥
सकृदेव एकवारमेव, भुज्यते सेव्यते इति भोगः, अन्नमोदनादि, स्रग् माल्यम् , श्रादिशब्दात्ताम्बूल-विलेपनोद्वर्तनधूपन-स्नान-पानादिपरिग्रहः । पुनः पुनरनेकवारं भोग्यः सेव्यः, अङ्गना वनिता, आदिशन्दाद्वस्त्रालङ्कार-गृह-शयनासन-वाहनादिपरिग्रहः ॥५॥ इदं च भोगोपभोगव्रतं भोक्तुं योग्येषु परिमाणकरणेन भवति, इतरेषु तु वर्जनेनेति श्लोकद्वयेन बेर्जनीयानाह
मद्यं मांसं नवनीतं मधूदुम्बरपञ्चकम् । अनन्तकायमज्ञातफलं रात्रौ च भोजनम् ॥६॥ आमगोरससंपृक्तद्विदलं पुष्पितौदनम् ।
दध्यहतियातीतं कुथितान्नं च वर्जयेत् ॥७॥ तत्र मद्यं द्विधा काष्टनिष्पन्न पिष्टनिष्पन्नं च । मांसं विधा-जल-स्थल-खचरमांसमेदेन । मांसग्रहणेन चर्म रुधिर मेदोमज्जानः परिगृह्यन्ते । नवनीतं गो महिन्यजा-ऽविसम्बन्धेन चतुर्दा । मधु त्रेधा- माक्षिकं भ्रामरं कौत्तिकं च । उदुम्बरपञ्चकादयो यथास्थानं व्याख्यास्यन्ते ॥ ६ ॥७॥
१ तर्जनी-मु.॥ २ ०क्तं द्विदलं-मु.॥
NECHERRRRENCHCHCHCHECHEHRECERMECHERRRRHEN
॥४२९॥
Jain Education Int
For Private & Personal Use Only
Jww.jainelibrary.org