SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ स्वोपवृत्ति विभूषितं योगशास्त्रम् ॥ ४२८ ॥ Jain Education Inte सदा सामायिकस्थानां यतीनां तु येतात्मनाम् । न दिशि क्वचन स्यातां विरत्यविरती इमे ॥ २ ॥ चारणानां हि गमनं यदूर्ध्वं मेरुमूर्द्धनि । तिर्यग् रुचकशैले च नैषां दिग्बिरतिस्ततः ॥ ३ ॥ गन्तुं सर्वासु यो दिक्षु विदध्यादवधि सुधीः । स्वर्गादौ निरवधयो जायन्ते तस्य सम्पदः ॥ ४ ॥ ३ ॥ द्वितीयं गुणव्रतमाह भोगोपभोगयोः संख्या शक्त्या यत्र विधीयते । भोगोपभोगमानं तद् द्वैतीयीकं गुणव्रतम् ॥ ४ ॥ भोगोपभोग योर्वक्ष्यमाणलक्षणयोः संख्या परिमाणं यत्र व्रते विधीयते, कया ? शक्त्या शरीरमनसोरनाचाधया, तद् भोगोपभोगमानं नाम गुणत्रतम्, .द्वितीयमेव द्वैतीयीकम्, खार्थे टीकण् ॥ ४ ॥ भोगोपभोग योर्लक्षणमाह सकृदेव भुज्यते यः स भोगोऽन्नखगादिकः । पुनः पुनः पुनर्भोग्य उपभोगोऽङ्गनादिकः ॥ ५ ॥ १ जितात्मनाम् - मु. ॥ २ द्वैतीयकम् खं० । “तीयाट्टीकन् न विद्या चेत् " - सि० ७।२।१५३ ॥ For Private & Personal Use Only १७००० तृतीय : प्रकाशः श्लोकाः ४-५ ॥ ४२८ ॥ 5 10 www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy