SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ स्वोपहवृत्तिविभूषित वतीय: प्रकाशः स्लोकः२ योगशास्त्रम् ॥४१६॥ RSHURMEERHIGHERCIENTRIENTIREMIRCHIKETCHEHRADHEIGH अपिशब्दादेकद्वित्र्यादिदिक्ष्वपि, सीमा मर्यादा, कृता प्रतिपन्ना, यत्र व्रते सति, न लङ्घयते नातिक्रम्यते, तत् प्रथमं गुणव्रतम् , , उत्तरगुणरूपं व्रतं गुणव्रतम् , गुणाय वोपकाराय अणुव्रतानां व्रतं गुणव्रतम् , ख्यातं प्रसिद्धम् , तस्यामिधानं दिग्विरतिरिति ॥१॥ ननु हिंसादिपापस्थानविरतिरूपाणि युक्तान्यणुव्रतानि, दिग्व्रते तु कस्य पापस्थानस्य निवृत्तिर्येनास्य व्रतत्वमुच्यते ? | है उच्यते—अत्रापि हिंसादीनामेव पापस्थानानां विरतिः । एतदेवाह चराचराणां जीवानां विमर्दननिवर्त्तनात् तप्तायोगोलकल्पस्य सद्वतं गृहिणोऽप्यदः ॥२॥ चरास्त्रसा द्वीन्द्रियादयः, अचराः स्थावरा एकेन्द्रियाः, तेषां नियमितसीमावहिर्वतिनां जीवानां, यद्विमर्दनं| यातायातादिना हिंसा, तस्य निवर्त्तनाद्धेतोरिदमपि हिंसाप्रतिषेधपरमेव गृहस्थस्यापि सद्रतम् । हिंसाप्रतिषेधपरत्वे च । असत्यादिप्रतिषेधपरताऽपि सुवचैव । ___यद्येयं, साधूनामपि दिग्विरतिव्रतप्रसङ्ग इत्याह-तप्तायोगोलकल्पस्येति । गृहस्थो बारम्भपरिग्रहपरत्वाद्यत्र यत्र याति भुक्ते शेते व्यापारान्तरं वा कुरुते, तंत्र तत्र तप्तायोगोलक इव जीवोपमदं करोति । गृहिणोऽपीत्यपिशब्दस्तप्तायोगोलकल्पस्येत्यत्र सम्बन्यते, तप्तायोगोलकल्पस्यापीत्यर्थः। यदाह "तत्तायगोलकप्पो पमनजीवोऽणिवारियप्पसरो। १ चोप० मु. ।। २ तत्र तप्ता० मु.॥ ३ आवश्यकचूर्णावपि प्रत्याख्यानाध्ययने (पृ. २९४) गाथे रश्यते । ___ सप्तायोगोलकल्पः प्रमत्तजीवोऽनिवारितप्रसरः । सर्वत्र किन फुर्यात् पापं तत्कारणानुगतः। BlalalavaraHHHHHHHHHHHHHCHCHCHEClete Jain Education inte For Private & Personal Use Only w.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy