SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ स्वोपक्षवृत्तिविभूषितं योगशास्त्रम् प्रथमः प्रकाश: श्लोक ३ ॥ २२ ॥ ॥ २२ ॥ प्रजहस्ते तथा तत्र स्फुटन्ति स्म फटा यथा। तथा दशन्ति स्म यथाऽभज्यन्त दशना अपि ॥४६॥ उद्वान्तगरलेष्वेषु लम्बमानेषु रज्जुवत् । स वज्रदशनानाशु मूषकानुदपीपदत् ॥४७॥ स्वाम्यङ्गं खनकाश्चख्नुनखैर्दन्तैमुरखैः खरैः। मोमूत्र्यमाणास्तत्रैव क्षते क्षारं निचिक्षिपुः । ४८॥ तेष्वप्यकिञ्चिद्भूतेषु भूतीभूत इव क्रुधा । उद्दण्डदन्तमुसलं हस्तिरूपं ससर्ज सः ॥४९॥ सोऽधावत् पादपातेन मेदिनीं नमयन्निव । उडून्युदस्तहस्तेन नभस्तत्रोटयन्निव ॥५०॥ कराग्रेण गृहीत्वा च दुर्वारेण स वारणः । दूरमुल्लालयामास भगवन्तं नभस्तले ॥५१॥ विशीर्य कणशो गच्छत्वसाविति दुराशया। दन्तावुन्नम्य स व्योम्नः पतन्तं स्म प्रतीच्छति ॥५२॥ पतितं दन्तघातेन विध्यति स्म मुहुर्मुहुः । वक्षसो वज्रकठिनात् समुत्तस्थुः स्फुलिङ्गकाः ॥५३॥ न शशाक वराकोऽसौ कत्तुं किश्चिदपि द्विपः । यावत् तावत् सुरश्चक्रे करिणी वैरिणीमिव ॥५४॥ अखण्डशुण्डदन्ताभ्यां भगवन्तं बिभेद सा। स्वैरं शरीरनीरेण विषेणेव सिषेच च ॥५५॥ करेणो रेणुसाद्भूते तस्याः सारे सुराधमः । पिशाचरूपमकरोन्मकरोत्कटदंष्ट्रकम् ॥५६॥ ज्वालाजालाकुलं व्यात्तव्यायतं वक्त्रकोटरम। अभवद् भीषणं तस्य वह्निकुण्डमिव ज्वलत् ।।५७॥ १ प्रजघ्नु-खं. मु. ॥ २ दुराशयः- मु. त्रिषष्टि०१०। ४ । २११ ।। २ ज्वालामालाकुलव्यात्तव्यायतं-खं. । ज्वालाजालाकुलं व्यात्तं व्यायतं- मु०॥ 10 Jain Education Inten! For Private & Personal use only Poldjainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy