________________
।। २१ ।।
Jain Education Inte
अपनीय ततः पांसुं वज्रतुण्डाः पिपीलिकाः । स समुत्पादयामास प्रभोः सर्वाङ्गपीलिकाः ||३४|| प्राविशन्कतोऽङ्गेषु स्वैरं निर्ययुरन्यतः । विध्यन्त्यस्तीक्ष्णतुण्डाः सूच्यो निवसनेविव ||३५|| निर्भाग्यस्येव वाञ्छा मोघीभूतासु तास्वपि । स दंशान् रचयामास नाऽकृत्यान्तो दुरात्मनाम् ||३६|| तेषामेकप्रहारेण रक्तैर्गोक्षीरसोदरैः । क्षरद्भिरभवन्नाथः सनिर्झर इवाद्रिराट् ||३७|| तैरप्यक्षोभ्यमाणेऽथ जगन्नाथे स दुर्मतिः । चक्रे प्रचण्डतुण्डाया दुर्निवारा घृतेलिकाः ||३८|| शरीरे परमेशस्य निमग्नमुखमण्डलाः । ततस्ताः समलक्ष्यन्त रोमालीवत् सहोत्थिताः ॥३९॥ ततोऽप्यविचलच्चित्ते योगचित्ते जगद्गुरौ । स महावृश्विकांश्चक्रे ध्यानव्रश्चननिश्चयी ||४०|| प्रलयाग्निस्फुलिङ्गाभास्तप्ततोमरदारुणैः । तेऽभिन्दन् भगवद्देहं लाङ्गूलाङ्कुटकण्टकैः ॥४१॥ तैरप्यनाकुले नाथे कूटसङ्कल्पसङ्कुलः । सोऽनल्पान् कल्पयामास नकुलान् दशनाकुलान् ||४२॥ खिखीति रसमानास्ते दंष्ट्राभिर्भगवत्तनुम् । खण्डखण्डैत्रोटयन्तो मांसखण्डान्यपातयन् ||४३|| तैरप्यकृतकृत्योऽसौ यमदोर्दण्डदारुणान् । अत्युत्कटफटाटोपान् कोपात् प्रायुक्त पन्नगान् ||४४|| आशिरः पादमापीडय महावीरं महोरगाः । अवेष्टयन् महावृक्षं कपिकच्छूलता इव ॥ ४५ ॥ १ पांशुं - शां. मु. ॥ ३ योगवित्ते - त्रिषष्टि० ॥
२ रोमाणीव सहो-खं. मु. । " रोमालीव सहोत्थिता "- त्रिषष्टि० १० । ४ । १९८ ।।
For Private & Personal Use Only
5
10
।। २१ ।।
ww.jainelibrary.org