SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष वृत्ति विभूषितं गोगशास्त्रम् प्रथमः प्रकाश: श्लोक ३ ॥ २० ॥ सकुलाचलमेदिन्याः प्लावनव्यक्तवैभवः । येषामेषोऽपि गण्डूषसुकरो मकराकरः ॥२२॥ अप्येकभुजदण्डेन प्रचण्डाश्छत्रलीलया। उद्धरन्ति महानेकभूधरां ये वसुन्धराम् ॥२३॥ तेषामसमऋद्धीनां सुराणाममितौजसाम् । इच्छासम्पन्नसिद्धीनां मर्त्यमात्रः कियानयम् ॥२४॥ एषोऽहं चालयिष्यामि तं ध्यानादित्युदीर्य सः। करेण भूमिमाहत्योदस्थादास्थानमण्डपात् ॥२५॥ अर्हन्तः परसाहाय्यात्तपः कुर्वन्त्यखण्डितम् । मा ज्ञासीदिति दुर्बुद्धिः शक्रेण स उपेक्षितः ॥२६॥ ततो वेगानिलोत्पातपतापतधनाधनः । रौद्राकृतिर्दुरालोको भयापसरदप्सराः ॥२७॥ विकटोरस्थलाघातपुअितग्रहमण्डलः । स पापस्तत्र गतवान् यत्रासीत् परमेश्वरः ॥२८॥ निष्कारणजगद्वन्धुं निराबाधं तथास्थितम् । श्रीवीरं पश्यतस्तस्य मत्सरो ववृधेऽधिकम् ॥२९॥ गीर्वाणपांसनः पांसुवृष्टिं दुष्टोऽतनिष्ट सः। अकाण्डपटितारिष्टामुपरिष्टाज्जगत्प्रभोः ॥३०॥ विधुर्विधुन्तुदेनेव दुर्दिनेनेव भास्करः । पिदधे पांसुपूरेण सर्वाङ्गीणं जगत्प्रभुः ॥३१॥ समन्ततोऽपि पूर्णानि तथा स्रोतांसि पांसुभिः । यथा समभवत् स्वामी निश्वासोच्छ्वासवज्जितः ॥३२॥ तिलमात्रमपि ध्यानान्न चचाल जगद्गुरुः । कुलाचलचलति किं गजैः परिणतैरपि ॥३३॥ १ " गण्डूषंकरश्च मकराकरः" त्रिषष्टिः १०। ४ । १८१ ॥ २ प्रचण्ड छत्र-जैमुसं, त्रिषष्टिः १०। ।। १८२ ॥ ३ महाने-खं. ॥ ४पांशुभिः-शां. मु. ॥ Jain Education Inter For Private & Personal use only Paww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy