SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ॥ २३ ॥ Jain Education Inter तोरणस्तम्भाविव प्रोत्तम्मितौ भुजौ । अभूच्च तस्य जङ्घोरु तुङ्गं तालद्रुमोपमम् ॥५८॥ स साट्टहासः फेकुर्वन् स्फूर्ज्जत्किलकिलाखः । कृत्तिवासाः कर्तिकाभृद् भगवन्तमुपाद्रवत् ||५९ || तस्मिन्नपि हि विध्याते क्षीणतैलप्रदीपवत् । व्याघ्ररूपं कुधाघातः शीघ्र चक्रे स निर्घृणः ||६० || अथ पुच्छच्छटाच्छोटैः पाटयन्निव मेदिनीम् । वृत्कारप्रतिशब्दैश्व रोदसी रोदयन्निव ॥ ६१ ॥ दंष्ट्राभिर्वसाराभिर्नखरैः शूलसोदरैः । अव्ययं व्यापिपर्त्ति स्म व्याघ्रो भुवनभर्त्तरि ||६२॥ तत्र विच्छायतां प्राप्ते दवदग्ध इव द्रुमे । सिद्धार्थराजत्रिशलादेव्यो रूपं व्यधत्त सः ||६३ || किमेतद् भवता तात प्रक्रान्तमतिदुष्करम् । प्रव्रज्यां मुञ्च मास्माकं प्रार्थनामवजीगणः || ६४ || वृद्धावशरणावावां त्यक्तवान् नन्दिवर्द्धनः । त्रायस्वेति स्वरैर्हीनदीनैर्व्यलपतां च तौ ॥ ६५ ॥ युग्मम् । ततस्तयोर्विला पैरप्यलिप्तमनसि प्रभौ । आवासितं दुराचारः स्कन्धावारमकल्पयत् ॥ ६६॥ तत्रानासाद्य पदं सूद सादर ओदने । चुल्लीपदे प्रभोः पादौ कृत्वा स्थालीमकल्पयत् ॥६७॥ तत्कालं ज्वालितस्तेन जज्वाल ज्वलनोऽधिकम् । पादमूले जगद्भर्चुगिरेरिव दवानलः ||६८|| तस्यापि प्रभोः स्वर्णस्येव न श्रीरहीयत । ततः सुराधमचक्रे पक्वणं दारुणक्वणम् ||६९ || १ कर्तृका - रोमु । कत्रिका - जैमु. त्रिषष्टि० १० । ४ । २१८ ।। २ फूत्कार - खं. ॥ ४ तावत् खं. ॥ ५ 'नदैन्यैर्व्य०- खं. ॥ ६ क्षण :- खं. ॥ ३ रोदसी - मु. For Private & Personal Use Only 5 10 ।। २३ ।। ww.jainelibrary.org.
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy