________________
प्रकारान्तरेण पुनर्योगगर्भामेव स्तुतिमाह - कृतापराधेऽपि जने कृपामन्थरतारयोः ।
ईषदबाष्पायोर्भद्रं श्रीवीरजिननेत्रयोः ।। ३॥ विहितविप्रियेऽपि जने सङ्गमकादौ कृपया मन्थरे ईपन्नते तारे कनीनिके ययोः, ईपद्वाष्पश्चक्षुर्जलम् , स च करुणाकृत एव, तेन आट्टै क्लिने भगवतो नेत्रे, तयोर्भद्र मिति सामर्थ्यान्नमस्कारप्रतीतिः। तथाहि
अनुग्राममनुपुरं विहग्न विभुरन्यदा । दृढभूमिमनुप्राप बहुम्लेच्छकुलाकुलाम् ॥१॥ पेढालग्रामं निकषा पेढालाराममन्तरा । कृताष्टमतपःकर्मा पोलासं चैत्यमाविशत् ॥२॥ जन्तूपरोधरहितमधिष्ठाय शिलातलम् । आजानुलम्बितभुजो दरावनतविग्रहः ॥३॥ स्थिरीकृतान्तःकरणो निनिमेषविलोचनः । तस्थौ तत्रैकरात्रिक्या महाप्रतिमया प्रभुः ॥४॥
तदा शक्रः सुधर्मायां सभायां परिवारितः । सहश्चतुरशीत्या सामानिकदिवौकसाम् ॥५॥ १ इत आरभ्य सर्वमपि संगमककृतपरीषहसम्बद्धं महावीरचरितं समानप्रायं त्रिषष्टि०१०। ४ । १६०-२८० ।
तु-आव० चू० पृ० ३०१-३१४ । आव० हा० पृ० २१६-२२० । आव० म० पृ० २८८-२९३॥ २ तु०-"तेणं कालेणं तेणं समपणं सक्के देविदे देवराया दाहिणड्ढलोगाहिबई सोहम्मे कप्पे सोहम्मसिए
Jain Education Inter
For Private & Personal Use Only
अ
w.jainelibrary.org