SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् ॥ १६ ॥ Jain Education Inte 3 तस्थौ तथैव तत्रैव स्वामी तदनुकम्पया । परेषामुपकाराय महतां हि प्रवृत्तयः || १३०॥ भगवन्तं तथा दृष्ट्वा विस्मयस्मेरलोचनाः । गोपाला वत्सपालाश्च तत्रोपससृपृर्हृतम् ॥१३२॥ वृक्षान्तरे तिरोभूय यथेष्टं ग्राबलोदुभिः । प्रणिजघ्नुरनिघ्नास्ते पन्नगस्य महात्मनः || १३२|| तथाप्यविचलन्तं तं वीक्ष्य विश्रम्भभाजिनः । यष्टिभिर्घट्टयामासुर्निकटीभूय तत्तनुम् ॥ १३३॥ आख्यञ् जनानां तद् गोपास्ततस्तत्रागमञ् जनाः । ववन्दिरे महावीर ममहंश्च महोरगम् ॥ १३४॥ घृतविक्रयकारिण्यो गच्छन्त्यस्तेन वर्त्मना । नागं हैयङ्गवीनेनाम्रक्षयन् पस्पृशुश्च तम् ॥१३५॥ आगत्य घृतगन्धेन तीक्ष्णतुण्डाः पिपीलिकाः । चक्रिरे तितउप्राय महेस्तस्य कलेवरम् ॥१३६॥ मत्कर्मणां कियदेतदित्यात्मानं विबोधयन् । वेदनामधिसेहे तां दुःसहां सोऽहिपुङ्गवः || १३७|| वराक्यो मा स्म पील्यन्त स्वल्पसाराः पिपीलिकाः । इत्यचीचलदङ्गं न मनागपि महोरगः ॥ १३८ ॥ सिक्तः कृपासुधावृष्ट्या दृष्ट्या भगवतोरगः । पक्षान्ते पञ्चतां प्राप्य सहस्रारदिवं ययौ ॥ १३९ ॥ विदधति विधिधोपसर्गवाधां फणिभृति दृष्टिविषे हरौ तु भक्तिम् । इति तुल्यमनस्कता शशंसे चरमजिनस्य जगत्त्रयैकबन्धोः ॥ १४० ॥ २ ॥ २ प्रतिजघ्नु – जैमुनं० ॥ १ लेष्टुभिः - शां. त्रिषष्टि० १० । ३ । २७२ ।। ३ ते गोपा -मु० ॥ ४ " चालनी तितउ " इति अभिधानचिन्तामणौ ४ । ८४ ॥ For Private & Personal Use Only प्रथम: प्रकाश: श्लोक २ ॥ १६ ॥ 5 10 www.jainelibrary.org.
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy