________________
प्रभो महाप्रभावाढथे प्रभवन्ति स्म नैव ताः । महानपि मरुन्मेरुं कि कम्पयितुमीश्वरः ॥११८॥ दारुदाहं न दग्धोऽसावद्यापीति क्रुधा ज्वलन् । दर्श दर्श दिनकर गज्वालाः सोऽमचत पुनः ॥११९॥ सम्पन्नासु प्रभौ वारिधाराप्रायासु तास्वपि । ददंश दन्दशूकोऽसौ निःशूकः पादपङ्कजे ॥१२०॥ दृष्ट्वा दृष्ट्वाऽपचक्राम स्वविषोद्रेकदुर्मदः । यत् पतन् मद्विषाक्रान्तो मृद्नीयादेष मामपि ॥१२१॥ दशतोऽप्यसकृत्तस्य न विषं प्राभवत् प्रभौ। गोक्षीरधाराधवलं केवलं रक्तमक्षरत् ॥१२२॥ ततश्च पुरतः स्थित्वा किमेतदिति चिन्तयन् । वीक्षाञ्चके जगन्नाथं वीक्षापन्नः स पन्नगः ॥१२३॥ ततो निरूप्य रूपं तदनुरूपं जगद्गुरोः । कान्तसौम्यतया मक्षु विध्याते तद्विलोचने ॥१२४॥ उपसन्नं च तं ज्ञात्वा बभाषे भगवानिति । चण्डकौशिक बुध्यस्त्र बुध्यस्व ननु मा मुहः ॥१२५॥ श्रुत्वा तद् भगवद्वाक्यमूहापोहं वितन्वतः । पन्नगस्य समुत्पेदे स्मरणं पूर्वजन्मनाम् ॥१२६।। स त्रिः प्रदक्षिणीकृत्य ततश्च परमेश्वरम् । निष्कषायः सुमनसाऽनशनं प्रत्यपद्यत ॥१२७।। कृतानशनकर्माण निष्कर्माणं महोरगम् । प्रशमापनमज्ञासीदन्वज्ञासीच्च तं प्रभुः ॥१२८॥ कुत्राप्यन्यत्र मा यासीद् दृष्टि, विषभीषणा । इति तुण्डं बिले क्षिप्त्वा पपौ स समतामृतम् ।।१२९॥
१ प्रभोर्महाप्रभाषस्य-खं. मु. त्रिषष्टि० १० । ३ । २५८ ॥ २ कान्तिसौ-मु.॥ ३ स्वमनसा-खं. त्रिषष्टि० १०।३।२६७ ।।
Jain Education in
For Private & Personal Use Only
Tww.jainelibrary.org