SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् ॥ १४ ॥ Jain Education Inter राजपुत्रास्ततो नेशुः श्येनादिव शकुन्तयः । स्खलित्वा च पपातायं यमत्रवत्र इवावटे || १०५ || पततः पतितस्तस्य सम्मुखः परशुः शितः । शिरो द्विधा कृतं तेन ही विपाकः कुकर्मणाम् || १०६ || स विपद्य वनेत्रैव चण्डोsहिर्दृग्विषोऽभवत् । क्रोधस्तीत्रानुबन्धो हि सह याति भवान्तरे ॥ १०७॥ अवश्यं चैष बोधाई इति बुद्धया जगद्गुरुः । आत्मपीडामगणयन्नृजुनैव पथा ययौ ॥ १०८॥ अभवत्पदसश्चारसुषमीभूतवालुकम् । उदपानावहत्कुल्यं शुष्कजर्जरपादपम् ॥१०९ ॥ जीर्णपर्णचयास्तीर्ण कीर्ण वल्मीकपर्व्वतैः । स्थलीभृतोटजं जीर्णारण्यं न्यविशत प्रभुः ॥ ११०॥ तत्र चाथ जगन्नाथो यक्षमण्डपिकान्तरे । तस्थौ प्रतिमया नासाप्रान्तविश्रान्तलोचनः ॥ १११ ॥ ततो दृष्टिविषः सर्पः सदप भ्रमितुं बहिः । बिल्ला भिरसरज्जिह्वा कालरात्रिमुखादिव ॥ ११२ ॥ भ्रमन् सोऽनुवनं रेणुसंक्रामद्भोगलेखया । स्वाज्ञालेखामिव लिखनीक्षाञ्चक्रे जगद्गुरुम् ॥ ११३॥ अत्र मां किमविज्ञाय किमवज्ञाय कोऽप्यसौ । आः प्रविष्टो निराशङ्कं निष्कम्पः शङ्कुवत् स्थितः ॥ ११४ ॥ तदेनं भस्मसादद्य करोमीति विचिन्तयन् । आध्मायमानः कोपेन फटाटोपं चकार सः ॥ ११५ ॥ ज्वालामाला मुद्वमन्त्या निर्दहन्त्या लताद्रुमान् । भगवन्तं दृशाऽपश्यत् स्फारफूत्कारदारुणः ॥ ११६॥ दृष्टिज्वालास्ततस्तस्य ज्वलन्त्यो भगवत्तनौ । विनिपेतुर्दुरालोका उल्का इव दिवो गिरौ ॥ ११७ ॥ For Private & Personal Use Only प्रथम: प्रकाशः लोक २ ॥ १४ ॥ 5 10 www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy