________________
तूष्णीकोऽभूत्ततः क्षुल्लोऽमस्त चैव विशुद्धधीः । महानुभावो यदसौ सायमालोचयिष्यति ॥१२॥ आवश्यकेऽप्यनालोच्य यावदेष निषेदिवान् । क्षुल्लकोऽचिन्तयत्तावद्विस्मृताऽस्य विराधना ॥९३।। अस्मारयच्च तां भेकीमालोचयसि किं नहि । क्षपकोऽपि क्रुधोत्थाय क्षुल्लं हन्मीति धावितः ॥९४॥ कोपान्धश्च ततः स्तम्भे प्रतिफल्य व्यपद्यत । विराधितश्रामण्योऽसौ ज्योतिष्केदपद्यत ॥१५॥ स च्युत्वा कनकखले सहस्रार्द्धतपस्विनाम् । पत्युः कुलपतेः पत्न्याः पुत्रोऽभूत् कौशिकाह्वयः ।।१६।। तत्र कौशिकगोत्रत्वादासनन्येऽपि कौशिकाः । अत्यन्तकोपनत्वाच स ख्यातश्चण्डकौशिकः ॥९७॥ श्राद्धदेवातिथित्वं च तस्मिन् कुलपतौ गते । असौ कुलपतिस्तत्र तापसानामजायत ॥९८॥ मूर्च्छया वनखण्डस्य सोऽन्तर्धाम्यन्नहर्निशम् । अदात् कस्यापि नादातुं पुष्पं मूलं फलं दलम् ॥९९।। विशीर्णमपि योऽगृह्णाद्वने तत्र फलादिकम् । उत्पाठ्य परशुं यष्टिं लोष्टुं वा तं जघान सः ॥१०॥ फलाद्यलभमानास्तु सीदन्तस्ते तपस्विनः। पतिते लगुडे काका इव जग्मुर्दिशो दिशम ॥१०॥ अन्येद्युः कण्टिकाहेतोः कौशिके बहिरीयुषि । अभाक्षुर्मक्षु राजन्याः श्वेतव्या एत्य तद्वनम् ॥१०२॥ अथ व्यावर्तमानस्य गोपास्तस्य न्यवीविदन् । पश्य पश्य वनं कैश्चिद् भज्यते भज्यते तव ॥१०३।। जाज्वल्यमानः क्रोधेन हविषेव हुताशनः । अकुण्ठधारमुद्यम्य कुठारं सोऽभ्यधावत ॥१०४॥ १ लीष्टं-मु.॥
i a
For Private & Personal Use Only
___JainEducation Ind
w
ww.jainelibrary.org