SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ उपाध्यायासने तस्मिन् वासवेनोपवेशितः। प्रणम्य प्रार्थितः स्वामी शब्दपारायणं जगौ ॥५७॥ इदं भगवतेन्द्राय प्रोक्तं शब्दानुशासनम् । उपाध्यायेन तच्छ्रुत्वा लोकेष्वैन्द्रमितीरितम् ॥५८॥ मातापित्रोरनुरोधादष्टाविंशतिवत्सरीम् । कथञ्चिद् गृहवासेऽस्थात् प्रव्रज्योत्कण्ठितः प्रभुः ॥५९॥ अथ पूर्णायुषोः पित्रोद॑वभूयमुपेयुषोः। ईहाञ्चक्रे परिव्रज्यां निरीहो राज्यसम्पदः ॥६॥ भगवन् मा क्षते क्षारं क्षेप्सीरिति सगद्गदम् । भ्रात्रोक्त्वा ज्यायसा नन्दिवर्द्धनेनोपरोधितः ॥६१॥ भावतो यतिरेवाथ नानाभरणभूषितः । कायोत्सर्ग श्रयश्चित्रशालिकायामवस्थितः ॥६२।। एषणीयप्रासुकानपानवृत्तिर्महामनाः। वर्षमेकं कथमपि भगवानत्यवाहयत् ॥६३॥ तीर्थ प्रवर्तयेत्यभ्यर्थितो लोकान्तिकामरैः । यथाकामीनमर्थिन्यो दानं दातुं प्रचक्रमे ॥६॥ द्वैतीयीकेन वर्षेण विनिर्मायानृणां भुवम् । औज्झद्राज्यश्रियं स्वामी मन्यमानस्तृणाय ताम् ॥६५॥ सव्वैर्देवनिकायैश्च कृतनिष्क्रमणोत्सवः । सहस्रवाह्यामारुह्य शिवी चन्द्रप्रभाभिधाम् ॥६६॥ ज्ञातखण्डवने गत्वा सर्वसावधवजनात् । प्रव्रज्यामग्रहीदहश्चतुर्थप्रहरे प्रभुः ॥६७॥ ॥९ ॥ १ यतिरेवा खं. ॥ २ श्लोकद्वयं त्रिषष्टि०१०।२।१६८-१६९ ॥ ३ यथाकामितम-त्रिषष्टिः १०।२।१६९॥ ४ दैतीयन शां.। द्वितीयकेन खं.॥ . Jain Education in For Private & Personal Use Only T ww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy