________________
प्रथमः प्रकाश:
स्वोपज्ञवृत्तिविभूषितं गेगशास्त्रम्
॥१०॥
जगन्मनोगतान् भावान् प्रकाशयदथ प्रभोः । ज्ञानं तुरीयं संजज्ञे मनःपर्ययसंज्ञकम् ॥६८॥ ततश्च गत्वा सन्ध्यायां कारग्रामसन्निधौ । गिरीन्द्र इव निष्कम्पः कायोत्सर्ग व्यधाद्विभुः ॥६९।। गोपालेनाथ यामिन्यां निष्कारणकृतक्रुधा । उपद्रोतुं समारेमे भगवानात्मवैरिणा ॥७०॥ अथेन्द्रेणावधिज्ञानाज्जज्ञे प्रभुमुपद्रवन् । स दुःशीलो महाशैलमाखुश्चिखनिषन्निव ॥७१॥ कल्याणीभक्तिरागाच शक्रः प्रभुपदान्तिकम् । नष्टो मत्कुणनाशं च स गोपहतकः क्वचित् ॥७२॥ ततः प्रदक्षिणीकृत्य त्रिमूर्ना प्रणिपत्य च । इति विज्ञपयाञ्चक्रे प्रभुः प्राचीनबहिषा ॥७३॥ भविष्यति द्वादशाब्दान्युपसर्गपरम्परा । तां निषेधितुमिच्छामि भगवन् पारिपाश्चिकः ॥४॥ समाधि पारयित्वेन्द्रं भगवानुचिवानिति । नापेक्षाश्चक्रिरेऽर्हन्तः परसाहायकं क्वचित् ॥७५॥
ततो जगद्गुरुः शीतलेश्यः शीतमयूखवत् । तपस्तेजोदुरालोकोऽधिपतिस्तेजसामिव ॥७६।। १ कुर्मार -जैमुसं। तु०-"अण्णया य भयवं परिब्भमन्तो पत्तो कम्मारगामंतियं । "-चउप्पन्न पृ० २७४ ।। २ श्लोकत्रयं त्रिषष्टि० १०।३। २७-२९ ॥ ३ तत्तां निरोद्भुमिच्छामि-शां. । तत्तां निषेद्भुमिच्छामि-खं. ॥ ४ नव श्लोकाः त्रिषष्टि० १०।३। ३७-४५। तुलना-तिए णं समणे भगवं महावीरे अणगारे जाए ईरियासमिए भासासमिए एसणासमिए आदाणभंडभत्तनिक्वेवणासमिए उच्चारपासवणखेलजल्लसंघाणपारिट्ठावणियासमिए मणसमिए वयसमिए कायसमिए मणगुते वयगुत्ते कायगुत्ते गुत्ते गुतिदिए गुत्तबंभयारी अकोहे अमाणे अमाए
Jain Education Intel
For Private & Personal Use Only
dow.jainelibrary.org