________________
स्वोपज्ञवृत्ति
विभूषितं योगशास्त्रम्
|| 2 11
Jain Education Inten
सव्रीडाः क्रीडितुं तत्र कुमाराः पुनराययुः । कुमारीभूय सोऽप्यागात् सर्व्वेऽप्यारुरुहुस्तरुम् ॥ ४५ ॥ पादपाग्रं कुमारेभ्यः प्राप प्रथमतः प्रभुः । यद्वा कियदमुष्येदं यो लोकाग्रं गमिष्यति ||४६ || शुशुभे भगवांस्तत्र मेरुशृङ्ग इवार्यमा । लम्बमाना बभ्रुः शाखास्वन्ये शाखामृगा इव ॥४७॥ जिग्ये भगवता तत्र कृतश्चासीदयं पणः । जयेद्य इह स धन्यान् पृष्टमारुह्य वाहयेत् ॥४८॥ आरुह्यावाहयद्वाहानिव वीरः कुमारकान् । आरुरोह सुरस्यापि पृष्ठं प्रष्ठो महौजसाम् ||४९|| ततः करालं वेतालरूपमाधाय दुष्टधीः । भूधरानप्यधरयन् प्राख्धो वर्धितुं सुरः ॥५०॥ वक्त्रे पातालकल्पेऽस्य जिह्वया तक्षकायितम् । पिङ्गैस्तुङ्गे शिरः शैले केशैर्दावानलायितम् ॥५१॥ तस्यातिदारुणे दंष्ट्रे अभूतां क्रकचाकृती । जाज्वल्यमाने अङ्गारशकट्याविव लोचने ॥५२॥ घोणारन्ध्रे महाघोरे महीधरगुहे इव । भृकुटीभङ्गुरे भीमे महोरग्याविव भुत्रौ ॥५३॥ व्यरंसीद् वर्धनानासौ यावत्तावन्महौजसा । आहत्य मुष्टिना पृष्ठे स्वामिना वामनीकृतः ॥ ५४ ॥ एवं च भगवद्धैर्यं साक्षात्कृत्येन्द्रवर्णितम् । प्रभुं नत्वात्मरूपेण निजं धाम जगाम सः ॥ ५५ ॥ मातापितृभ्यामन्येद्युः प्रारब्धेऽध्यापनोत्सवे । आः सर्व्वज्ञस्य शिष्यत्वमितीन्द्रस्तमुपास्थित ॥ ५६ ॥
१ भगवद्वीर्य साक्षात् कृत्वेन्द्र क. ख. ङ. ।। २ अर्धतृतीया श्लोकाः समानाः त्रिषष्टि० १० । २ । १२०-१२२ ॥ ३ पास्थितः - सर्वत्र पाठः । ०पास्थित जैमुसं०, त्रिषष्टि० १० । २ । १२० ।।
For Private & Personal Use Only
प्रथम:
प्रकाशः
॥ ८ ॥
5
10
w.jainelibrary.org