________________
नमः कालत्रयज्ञाय जिनेन्द्राय स्वयम्भुवे । ज्ञानबलवीर्यतेजःशक्त्यैश्वर्यमयाय ते ॥३३॥ आदिपुंसे नमस्तुभ्यं नमस्ते परमेष्ठिने। नमस्तुभ्यं महेशाय ज्योतिस्तत्त्वाय ते नमः ॥३४॥ तुभ्यं सिद्धार्थराजेन्द्रकुलक्षीरोदधीन्दवे । महावीराय धीराय त्रिजगत्स्वामिने नमः ॥३५॥ इति स्तुत्वा नमस्कृत्य गृहीत्वा परमेश्वरम् । आनीय तत्क्षणं मातुर्पयामास वासवः ॥३६॥ स्ववंशवृद्धिकरणाद् यथार्थ पितरौ तदा । नामधेयं विदधतुर्वर्द्धमान इति प्रभोः ॥३७॥ सोऽहंपूचिकया भक्तैः सेव्यमानः सुरासुरैः। दृशा पीयूषवर्षिण्या सिञ्चन्निव वसुन्धराम् ॥३८|| अष्टोत्तरसहस्रेण लक्षणैरुपलक्षितः । निसर्गेण गुणैर्वृद्धो वयसा ववृधे क्रमात् ॥३९॥ राजपुत्रैः सवयोभिः समं निःसीमविक्रमः । वयोऽनुरूपक्रीडाभिः कदाचित् क्रीडितुं ययौ ॥४०॥ तदा ज्ञात्वावधिज्ञानान्मध्येसुरसभं हरिः। धीरा अनु महावीरमिति वीरमवर्णयत् ॥४१॥ क्षोभयिष्यामि तं वीरमेषोऽहमिति मत्सरी। आजगामामरः कोऽपि यत्र क्रीडन्नभूद्विभुः ॥४२॥ कुर्वत्यामलकीक्रीडां राजपुत्रैः सह प्रभो । सोऽववेष्टविटपिनं भुजगीभूय मायया ॥४३॥
तत्कालं राजपुत्रेषु वित्रस्तेषु दिशो दिशि । स्मित्वा रज्जुमिवोत्क्षिप्य तं चिक्षेप क्षितौ विभुः ॥४४॥ १ इत आरभ्याष्टादश श्लोकाः समानप्रायाः त्रिषष्टि० १०।२। १०१-११८ ॥ २ वीरा-क. ख.॥ ३-ख.। धीर मु.॥ ४ऽविवेष्ट' -ख. ॥ .
Jain Education
a
l
For Private & Personal Use Only
www.jainelibrary.org