SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ किमेतदिति सश्चिन्त्यावधिज्ञानप्रयोगतः । लीलायितं भगवतो विदाश्चक्रे विडोजसा ॥१२॥ स्वामिन्ननन्यसामान्य सामान्यो मादृशो जनः । विदाङ्करोतु माहात्म्यं कथङ्कारं तवेदृशम् ॥१३॥ तन्मिथ्यादुष्कृतं भूयाचिन्तितं यन्मयाऽन्यथा । इतीन्द्रेण बुवाणेन प्रणेमे परमेश्वरः ॥१४॥ सानन्दं वादितातोयं चक्रे शर्कर्जगद्गुरोः । तीर्थगन्धोदकैः पुण्यैरभिषेकमहोत्सवः ॥१५॥ अभिषेकजलं तत्तु सुरासुरनरोरगाः । ववन्दिरे मुहुः सर्वाङ्गीणं च परिचिक्षिपुः ॥१६॥ प्रभुस्नात्रजलालीढा वन्दनीया मृदप्यभूत् । गुरूणां किल संसर्गाद् गौरवं स्याल्लघोरपि ॥१७॥ निवेश्येशानशक्राङ्के सौधर्मेन्द्रोऽप्यथ प्रभुम् । स्नपयित्वाचयित्वाऽथ कृत्वाऽऽरात्रिकमस्तवीत् ॥१८॥ नमोऽहते भगवते स्वयम्बुद्धाय वेधसे । तीर्थङ्करायादिकृते पुरुषेषत्तमाय ते ॥१९॥ नमो लोकप्रदीपाय लोकप्रद्योतकारिणे । लोकोत्तमाय लोकाधीशाय लोकहिताय ते ॥२०॥ नमस्ते पुरुषवरपुण्डरीकाय शम्भवे । पुरुषसिंहाय पुरुषैकगन्धद्विपाय ते ॥२१॥ चक्षुर्दायाभयदाय बोधिदायाध्वदायिने । धर्मदाय धर्मदेष्ट्रे नमः शरणदाय ते ॥२२।। धर्मसारथये धर्मनेत्रे धर्मंकचक्रिणे । व्यावृत्तच्छद्मने सम्यग्ज्ञानदर्शनधारिणे ॥२३॥ जिनाय ते जापकाय तीर्णाय तारकाय च । विमुक्ताय मोचकाय नमो बुद्धाय बोधिने ॥२४॥ १-क. ख. ग. । स्नपयित्वार्चयित्वारात्रिकं कृत्वेति तुष्टुवे-मु०॥ २ तुलनार्थ दृश्यतां 'नमुत्थुणं' सूत्रम् ।। Jain Education Inte २ . For Private & Personal use only wिw.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy