SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् ॥ ४ ॥ Jain Education Inte सम्प्रदायगभ्यश्चायमर्थस्तथाहि— श्रीवीरः प्राणतस्वर्गपुष्पोत्तर विमानतः । पूर्वजन्मार्जितोर्जस्वितीर्थ नामकर्मकः ||१|| ज्ञानत्रयपवित्रात्मा सिद्धार्थनृपवेश्मनि । त्रिशलाकुक्षौ सरस्यां राजहंस इवागमत् ||२|| युग्मम् । सिंहो गजो वृषः साभिषेकश्रीः स्रक् शशी रविः । महाध्वजः पूर्णकुम्भः पद्मसरः सरित्पतिः ||३|| विमानं रत्नपुञ्जश्च निर्धूमाग्निरिति क्रमात् । देवी चतुर्दश स्वप्नापश्यत्तत्र गर्भगे ||४|| त्रैलोक्योद्योतकृद् देवदानवासनकम्पकृत् । अपि नारकजन्तूनां क्षणदत्तसुखासिकम् ||५॥ प्रभुः सुखसुखेनैव जन्म प्राप शुभे दिने । तत्कालं दिक्कुमार्यश्च सूतिकर्माणि चक्रिरे ॥६॥ [ युग्मम् ] अथ जन्माभिषेकाय कृत्वोत्सङ्गे जगत्प्रभुम् । मेरुमूर्ध्नि सुधर्मेन्द्रः सिंहासनमशिश्रियत् ॥७॥ इयन्तं वारिसम्भारं कथं स्वामी सहिष्यते ? । इत्याशशङ्के शक्रेण भाक्तकोमलचेतसा ||८|| तदाशङ्कानिरासाय लीलया परमेश्वरः । मेरुशैलं वामपादाङ्गुष्ठाग्रेण न्यपीडयत् ॥९॥ शिरांसि मेरोरनमन्नमस्कर्तुमिव प्रभुम् । तदन्तिकमिवायातुमचलंश्च कुलाचलाः ||१०|| अतुच्छमुच्छलन्ति स्म स्नात्रं कर्तुमिवार्णवाः । विवेपे सत्वरं तत्र नर्त्तनाभिमुखेव भूः ॥ ११ ॥ १ सार्धश्लोकः त्रिषष्टि० १० । २ । ३०-३१ ॥ २ इस आरभ्य ||३५|| पर्यन्तमष्टाविंशतिः श्लोकाः समानप्रायाः त्रिषष्टि० १०।२।६०-८७ ॥ For Private & Personal Use Only प्रथम: प्रकाशः ॥ ४ ॥ 5 10 www.jainelibrary.org.
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy