SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ शयः, अपायभूता हि रागादयः, तदपगमेन भगवतः स्वरूपलाभः १ । 'अर्हते' इत्यनेन च सकलसुरासुरमनुजजनितपूजाप्रकर्षवाचिना पूजातिशयः २ । 'योगिनाथाय' इत्यनेन तु ज्ञानातिशयः, योगिनोऽवधिजिनादयः, तेषां नाथो विमलकेवलबलावलोकितलोकालोकस्वभावो भगवानेव ३। 'तायिने' इत्यनेन तु वचनातिशयः ४ । तायी सकलसुरासुरमनुजतिरश्चां पालकः । पालकत्वं च सकलभुवनाभयदानसमर्थसर्वभाषापरिणामिधर्मदेशनाद्वारेण भगवत एव । पालकत्वमात्रं तु स्वापत्यादेाघादीनामपि सम्भवति । तदेवं चतुरतिशयप्रतिपादनद्वारेण भगवतो महावीरस्य पारमार्थिकी स्तुतिरभिहितेति ॥१॥ पुनर्योगगर्भी स्तुतिमाह- . पन्नगे च सुरेन्द्रे च कौशिके पादसंस्पृशि । निर्विशेषमनस्काय श्रीवीरस्वामिने नमः ॥२॥ पनगस्य कौशिकत्वं पूर्वभवभूतकौशिकगोत्रत्वेन 'बुध्यस्व कौशिक' इति भगवता तथैव भाषितत्वेन च, सुरेन्द्रस्य तु कौशिकत्वं कौशिकाभिधानात् । पादस्पर्शश्च पन्नगस्य दशनबुद्धया सुरेन्द्रस्य च भक्त्यतिशयेन । निर्विशेषमनस्कत्वं च भगवतो द्वेष-रागविशेषरहितत्वेन माध्यस्थ्यात ।। १ समग्रभाषा-मु० ॥ २-ख० ग० । भवस्थिता-मु० ॥ Jain Education shal For Private & Personal Use Only |www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy