SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ स्वोपक्षवृत्तिविभूषितं योगशास्त्रम् प्रथमः प्रकाशः ___ तस्य चायमादिश्लोकःनमो दुर्वाररागादिवैरिवारनिवारिणे । अर्हते योगिनाथाय महावीराय तायिने ॥१॥ ___अत्र 'महावीराय' इति विशेष्यपदम् । विशेषेण ईरयति क्षिपति कर्माणीति वीरः, " विदारयति यत् कर्म तपसा च विराजते । तपोवीर्येण युक्तश्च तस्माद् वीर इति स्मृतः ॥" [ ] इति लक्षणाद् निरुक्ताद्वा वीरः । महांश्चासावितरवीरापेक्षया वीरश्च महावीरः । इदं च जन्ममहोत्सवसमये 'तनुशरीरोऽयं कथं जलप्राग्भारभारं सोढा' इति शक्रशङ्काशङ्कसमुद्धरणाय भगवता वामचरणाङ्गुष्ठनिपीडितसुमेरुशिखरप्रकम्पमानमहीतलोल्लसितसरित्पतिक्षोभशङ्कितब्रह्माण्डमाण्डोदरदर्शनप्रयुक्तावधिज्ञानज्ञातप्रभावातिशयविस्मितेन वास्तोष्पतिना नाम निर्ममे ' महावीरोऽयम्' इति । तत् पुनरनादिभवप्ररूढप्रौढकर्मसमुन्मूलनबलेन यथार्थीकृतं भगवता। वर्धमान इति तु नाम मातरपितराभ्यां कृतम् । श्रमणो देवार्य इति च जनपदेन । तस्मै नम इति सम्बन्धः । शेषाणि विशेषणानि । तैस्तु सद्भतार्थप्रतिपादनपरैश्चत्वारो भगवदतिशयाः प्रकाश्यन्ते । तत्र पूर्वार्धनापायापगमाति १ इन्द्रेण ॥२ अपनयन-ख० ॥३कृतं च भगवता-मु० ख०॥४°णानि स्पष्टानीति-खं० ॥ Jain Education Int For Private & Personal use only Hiwww.jainelibrary.org:
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy